रामदेवालयस्य मूलविन्यासं १९८८ तमे वर्षे सोम्पुरपरिवारेण कृतः । सोम्बुरकुटुम्बीयाः १५ सन्ततेः आविश्वं शताधिकानां देवालयानां शिल्पकार्यं कृतवन्तः । मूलविन्यासे कतिचन परिवर्तनानि कृत्वा नूतनराममन्दिरस्य विन्यासः २०२० वर्षे कृतः । एतत् मन्दिरं २३५ फीट्परिमितं वैशाल्यं, ३६० फीट्परिमितं दैर्घ्यं १६१ फीट्परिमितम् औन्नत्यं च आवहति । देवालयस्य मुख्यवास्तुशिल्पिनः चन्दर्कान्तसोम्पुरः तत्पुत्रौ निखिल् सोम्पुरः, आशीश् सोम्पुरश्च । नागरशैल्याः वास्तुशिल्पम् अवलम्ब्य अयं देवालयः निर्मितः । देवालयस्य प्राङ्गणे प्रार्थनामन्दिरम्, रामकथाकुञ्जः(उपन्यासभवनम्), वैदिकपाठशासा, सन्तनिवासः, यात्रिनिवासः, वस्तुसङ्ग्रहालयश्च भविष्यति । देवालयस्य कार्ये समाप्ते इदं मन्दिरं विश्वस्य तृतीयं बृहत्तमं मन्दिरं इति विख्यातं भविष्यति । देवालयस्य सद्यकालीनं प्रारूपं २०१९ तमे वर्षे प्रयागस्य कुम्भमेलायां प्रदर्शितम् ।











