वित्तमन्त्रिणा निर्मला सीतारमण इत्यनया संसदि अस्य वर्षस्य अंशकालिकं वित्त- संकल्पना-पत्रं प्रस्तुतम्। प्रत्यक्ष-परोक्ष-कर-मूल्ययोः परिवर्तनस्य प्रस्तावः नैव पारितः। वित्तमन्त्रिणा निगदितं यत् आयातशुल्कं समेत्य प्रत्यक्ष-स्थापयितुं निर्णयः गृहीतः। नवीन- ऋण-योजनान्तर्गतम् अधुना सप्त-लक्ष-रुप्यकात्मकेभ्यः माययुतेभ्यः करदातृभ्यः ऋण-प्रदानं नैव भविष्यति यत् त्रयोदशाधिक-द्विसहस्रतमवर्षस्य वित्तीय-वर्षे द्वे-दशमलव-द्वे-लक्ष- रुप्यकात्मकम् आसीत्। अल्पविक्रय-व्यवसायेभ्यः ऋणाधानस्य सीमा साम्प्रतं द्विकोटितः सम्वर्ध्य त्रिकोटिमितं यावत् कृता। एवमेव व्यावसायिक-योग्येभ्यः पात्रेभ्यः अनुमानितं ऋणाधानं पञ्चाशल्लक्षरुप्यकेभ्यः संवर्ध्य पञ्सप्ततिलक्षरुप्यकाणि यावत् कृतम्। वित्तमन्त्रिणा नवाचारेण सम्प्रभु-धन-कोषेण च निवृत्ति-कोषेण च विहिते निवेशे ऋण- लाभस्य केषुचित् आई-एफ्.एस्. सी. इत्येतस्य एकाङ्ङ्कानां केषुचित् च आयेषु पञ्चविंशत्यधिक-द्विसहस्रतमवर्षस्य मार्चमासस्य एकत्रिंशदिनांकं यावत् ऋण-मुक्तेः प्रस्तावः स्थापितः। वित्तमन्त्रिणा कथितं यत् प्रशासनं संसदि अर्थव्यवस्थायां श्वेतपत्रं स्थापयिष्यति। अनया अभिव्यक्तं यत् चतुर्दशाधिक-द्विसहस्रतमवर्षात् पूर्व-वर्षाणां सङ्कटः दूरीकृतः। वित्तमन्त्रिणा कथितं यत् प्रशासनस्य योजना प्रचल्यमाणानां चिकित्सालयानां संरचनागत- सौविध्यानाम् उपयोगं कृत्वा अनेकेषां चिकित्सकीय-महाविद्यालयानाम् उद्घाटनमस्ति। अनया योजना सम्बद्धानां प्रसङ्गानां समीक्षायै एकाः समितिः स्थापयिष्यते। श्रीमति-सीतारमण् इत्येसा कथितवती यत् प्रशासनं सर्वाइकल-इत्याख्यस्य कर्करोगं रोद्धुं नववर्षतः चतुर्दशायुपर्यन्तं बालिकाभ्यः सूच्यौषधिकरणस्य घोषणां विहितवत्। मातृणां शिशूनाञ्च- उपचारार्थं विभिन्नाः योजनाः व्यापकीय-सामञ्जस्याय एकस्य कार्यक्रमस्य अन्तर्गतम् आनेतव्याः। अनया समुदीरितं यत् साम्प्रतिके समये उद्घोषिता भारत-मध्यम-पूर्व-यूरोपीय- आर्थिक-वीथीः भारताय अन्येभ्यः च एकः संरचनागत-आर्थिक-परिवर्तनकारि-पदक्षेपो वर्तते।
अंशकालिक-वित्त-संकल्पना-प्रपत्रस्य प्रस्तुतान्तरं संसदः उभे सदने आदिनं यावत् स्थगिते जाते। लोसभासदने वित्तमन्त्रिणा द्विसहस्रतमवर्षस्य चतुर्विंशति-पञ्चविंशति-वर्षाभ्यां प्रशासनस्य अनुमानितयोः प्राप्तव्ययोः प्रतिवेदनं प्रस्तुतम्। वित्तविधेयकं चतुर्वि शत्युत्तरद्विसहस्रतमम् अपि लोकसभायां प्रस्तुतम् आसीत् तदनन्तरं सदनस्य कार्याचरणम् आदिनं स्थगितं जातम् आसीत्। राज्यसभायां वित्तमन्त्रिणा अंशकालिक-वित्त-संकल्पना- प्रपत्रस्य एका प्रतिः सदनस्य पटले स्थापिता। तदनु सदनस्य कार्याचरणं सम्पूर्णदिवसाय स्थगितं जातम्।
केन्द्रीय गृहमन्त्रिणा अमित शाहेन अंशकालिक-वित्त-संकल्पना-पत्रस्य प्रशंसा कुर्वता प्रोक्तं यत् इदं विंशतिः सप्तचत्वारिंशत् वर्षं यावत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः विकसित-भारतस्य दृष्टिकोणं प्राप्तुं मार्गदर्शनं करोति। श्रीशाहेनोक्तं यत् वित्तसंकल्पनापत्रम् अमृतकाले भारतं प्रत्येकस्मिन् क्षेत्रे अग्रगण्य-राष्ट्र निर्मातुं मार्गमपि प्रदर्शयति। रक्षामन्त्रिणा राजनाथ सिंहेन अपि अंशकालिक-वित्त-संकल्पना-पत्रस्य प्रशंसा कुर्वता उत्साहवर्धकमिदं वित्त संकल्पना-पत्रं इति उक्तम्। रक्षामन्त्रिणा विश्वासः प्रकटितः यत् देशः सप्त- चत्वारिंशदधिक- द्विसहस्रवर्षं यावत् निश्चयेन विकसितराष्ट्रं भविष्यति। केन्द्रीयमन्त्रिणा किरेण-रिजिजू इत्यनेन उक्तं यत् इदं वित्त-संकल्पना-पत्रं भारतं अग्रे नेतुं एकं आदर्शमाध्यममस्ति। तेनोक्तं यत् अनेन आधारभूत संरचना-कृषि-सामाजिक नीलार्थव्यवस्थाः समेत्य सर्वेषु क्षेत्रेषु ध्यानं प्रदत्तमस्ति। केन्द्रीयमन्त्रिणा नितिन गडकरिणा उक्तं यत् इदं वित्त-संकल्पना-पत्रं भारतीय-वित्तीय-क्षेत्रं सुदृढीकरिष्यति।











