ग्रैमी-पुरस्कारः

प्रख्यातयोः भारतीय-संगीतनयोः शंकरमहादेवन-जाकिर हुसैन इत्यनयोः गीत-संगीत-समूहेन शक्ति इत्याख्येन ख्यातिलब्धः ग्रैमी-पुरस्कारः विजितः। उभौ कलाकारौ पुरस्कारं स्वीय-अद्यतनीयाय गीताय ‘दिस मोमेन्ट’ इत्यस्मै श्रेष्ठ-वैश्विक-संगीत-गीत-वर्ग विजितवन्तौ। ‘दिस मोमेन्ट’ इति एतत् गीतं विगतवर्षे जूनमासे प्रसारितम् आसीत्। एतस्मिन् गीते जॉन – मैकलॉघलिन – जाकिर हुसैन – शंकरमहादेवन – वी. सेल्वागणेश – गणेश – राजागोपालन इत्येतेषां अष्टगीतानि समाविष्टानि सन्ति । अत्रान्तरे जाकिरहुसैनेन बेलाफ्लेक-एडगर मेयर-राकेशचौरासिया-इत्येतैस्सह पश्तोभाषायां स्वीययोगदानाय श्रेष्ठ- ग्लोबल-म्यूजिक-परफार्मेंस-वर्गेऽपि ग्रैमीपुरस्कारः विजितः। प्रधानमन्त्रिणा नरेन्द्रमोदिना च संगीतविशारदेभ्यः श्रीमज्जाकिर हुसैनाय राकेशचौरासियाय, शंकरमहादेवनाय, सेल्वागणेश-वी इत्यस्मै, गणेशराजगोपालन इत्यस्मै च वर्धापनानि सम्प्रेषितानि ।