सरलमानकसंस्कृतम्’ इति विषये राष्ट्रियकार्यशाला सम्पन्ना

वार्ताहरः- प्रवेशकुमारशुक्ल:, अयोध्या

भारतसर्वकारस्य भारतीयभाषासमितिः, केन्द्रीयसंस्कृतविश्वविद्यालयः (लखनऊ परिसरः), उत्तरप्रदेशस्य अयोध्यास्थश्रीनिवासबोधायनरामानुजसंस्कृत- महाविद्यालयश्चेत्येतेषां संयुक्ततत्वावधानेन 11/02/2024 दिनाङ्के ‘सरलमानकसंस्कृतम्’ इति विषये एकदिवसीयराष्ट्रियकार्यशालायाः आयोजनं कृतम्। कार्यक्रमोऽयं श्रीनिवासबोधायनरामानुजसंस्कृतमहाविद्यालये, उत्तरतोताद्रिमठे, अयोध्यायाम् (उत्तरप्रदेशे) प्रातः १०:०० वादनतः सायं ०५:०० वादनपर्यन्तं पञ्चसत्रेषु आयोजितमासीत्।
शिक्षाक्षेत्रे सरलमानकसंस्कृतस्’ प्रयोगेन अनुवादं विना अपि शैक्षणिककार्याणि उत्तमरीत्या सम्पादयितुं शक्यन्ते। विविधविषयेषु ‘सरलमानकसंस्कृतम्’ इत्यस्य उपयोगेन अध्यापनं कर्तुं शक्यते। आदर्शान् स्थापयित्वा संस्कृतस्य सरलरूपं पूर्णशिष्टाचारेण सह व्यावहारिकप्रयोगे स्थापितं भवति। एतदेव कार्यक्रमस्यास्य अध्यक्षः केन्द्रीयसंस्कृतविश्वविद्यालयस्थलखनऊपरिसरस्य निदेशकः प्रो. सर्वनारायणझामहोदयेन प्रतिपादितम्।
प्रथमसत्रे ‘किमार्थं सरलमानकसंस्कृतम्’ इति विषये व्याकरणस्य सर्वोच्चविद्वान् केन्द्रीयसंस्कृतविश्वविद्यालयस्थलखनऊपरिसरस्य व्याकरणविद्याशाखायाः आचार्याः प्रो.भारतभूषणत्रिपाठीमहोदयाः ‘सरलमानकव्याकरणस्य’ प्रयोगे बलं दातुमुक्तवन्तः।
द्वितीयसत्रे “सरल-मानक-संस्कृतस्य स्वरूपम्” इति व्याख्यानं पुरीस्थ (ओडिशाराज्यस्य) केन्द्रीयसंस्कृतविश्वविद्यालयस्थश्रीसदाशिव परिसरस्य शिक्षाशास्त्र विद्याशाखायाः आचार्याः प्रो.रमाकान्तमिश्रमहोदयाः स्वीयभाषणे सरलमानकसंस्कृतस्य स्वरूपं विविधदृष्ट्या व्याख्यानं प्रदत्तवान्।
तृतीयसत्रे अयोध्यास्थश्रीत्रिदण्डीदेवसंस्कृतमहाविद्यालयस्य साहित्यविभागाध्यक्षेण श्रीब्रजेशकुमारपाण्डेयमहोदयेन ‘सरलमानकसंस्कृतेन प्रौढसंस्कृतस्य परिवर्तनस्याभ्यासः’ इति विषये सुचारुव्याख्यानं प्रस्तुतम्। समाजे अस्माकं व्यवहारे च संस्कृतभाषा कथं सुलभतया प्रयोक्तुं शक्यते इति विषये स्वव्याख्याने सः प्रस्तुतवान्। अस्मिन् केचन प्रयोगाः अपि तेन व्याख्याताः। यथा ‘गुड मॉर्निंग’ इत्यस्य स्थाने ‘सुप्रभातम्’, ‘थैंक यू’ इत्यस्य स्थाने ‘धन्यवादः’ इत्यादयः।
चतुर्थसत्रे (उत्तरप्रदेशस्य) लखनऊस्थबाबासाहेबभीमरावअम्बेडकर- विश्वविद्यालयस्य संस्कृत-वैदिक-अध्ययनविभागस्य डा. विपिनकुमारझामहोदयाः ‘सरलमानकसंस्कृतस्य क्रियान्वयनम्’ भिन्न-भिन्न-विधिनाम् कार्यान्वयनेन कथं सरल-शिक्षां प्राप्तुं शक्यते’ इति विषये स्व-विचारं प्रकटितवान्। शिक्षाक्षेत्रे संस्कृतसम्भाषणेन सरलमानकसंस्कृतं वर्धयितुं शक्यते।
पञ्चमसत्रे श्रीनिवासबोधायनरामानुजसंस्कृतमहाविद्यालयस्य प्रवक्ता डॉ. राकेशकुमारशुक्लः “सरलमानकसंस्कृतस्य क्रियान्वयनम्” इति विषये स्वविचारं प्रकटयन् कार्यालयेषु, शैक्षणिकसंस्थासु च सरलसंस्कृतं कार्यान्वयितुं महत्त्वपूर्णान् उपायान् कथितवान्। कथं लोकव्यवहारे प्रयोगे च संस्कृतं जनानां मध्ये व्यापकतया भवेदिति विषये उक्तवान्।
कार्यशालायाः प्रबन्धकः डॉ. कुलदीपमिश्रः, संयोजकः डॉ. रुद्रनारायणनरसिंह मिश्रः तथा च सहसंयोजकः डॉ. प्रफुल्लगडपालमहोदयाः उपस्थिताः आसन्। कार्यशालायां प्रायः २०० छात्राः भागं गृहीत्वा लाभान्विताः अभवन्।