प्रख्यातः संवैधानिक-न्यायविद् फली नरीमन इत्यस्य फ़रवरी मासस्य एकविन्शति दिनाङ्के नवदिल्ल्यां निधनम् अभवत् सः पञ्चनवतिः वर्षीयः आसीत्। सः अनेकैः रोगैः अपि पीडितः आसीत्। नरीमन् इत्यनेन द्विसप्तत्यधिक-एकोनविंशतिः इत्यतः पञ्चसप्तत्यधिक-एकोनविंशतिः यावत् अतिरिक्त- सॉलिसिटर जनरल-रूपेण कार्यं कृतमासीत् सहैव आपत्कालीनावधौ स्वपदात् त्यागपत्रं दत्तमासीत्। तस्य कार्यकालस्य महत्वपूर्ण-अवसरः तदासीत् यदा एकसप्तत्यधिक- एकोनविंशतितमे वर्षे सर्वोच्च न्यायालयेन सः वरिष्ठ अधिवक्तृत्वेन नियुक्तिकृतम् आसीत्। स्वकीय-जीवनकाले तेन बहुषु ऐतिहासिक-प्रकरणेषु बादो विहितः, एतस्मिन् राष्ट्रीय- न्यायिक-नियुक्ति-आयोगस्यापि प्रकरणं विद्यते। सः सप्ताधिक-द्विसहस्रतमवर्षे पद्मविभूषणेन एवं एकनवत्यधिक-एकोनविंशतितमे वर्षे पद्मभूषणेन सम्मानितः आसीत्। अस्मिन् अवसरे राष्ट्रपतिः-द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीप-धनखड़, प्रधानमन्त्री नरेन्द्र मोदी इत्येते च दुःखं प्रकटितवन्तः। तस्य निधनमालक्ष्य राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् सः न्यायवित्सु एकः महान् व्यक्तिः आसीत्। एकस्मिन् सामाजिक-अन्तर्जालिक सन्देशे उपराष्ट्रपतिः प्रोक्तवान् यत् फली नरीमन सप्तदशकाधिके कार्यकाले भारतीय-विधि-प्रणाल्यां महान् व्यक्तिः आसीत्। प्रधानमन्त्रिणा दुःखं प्रकटीकुर्वता कथितं यत् तेन स्वीय-जीवनं सामान्य-नागरिकेभ्यः न्यायं सुलभायितुं समर्पितम्।











