भारत-ब्राजील-दक्षिण-अफ्रीका निधिः

भारतेन ब्राजील-दक्षिण-अफ्रीकाभ्यां साकं सम्भूय स्थापिते निर्धनता-बुभुक्षा- निर्मूलन-निधौ दश-लक्ष-मितानां अमरीकीय-डॉलर-रूप्यकाणां योगदानं कृतम् ।संयुक्त राष्ट्रे भारतस्य स्थायी प्रतिनिधिः रुचिरा-काम्बोजः संयुक्त राष्ट्रस्य कार्यालयस्य निदेशकाय दिमा अल खातिब इत्यस्मै एतद्धनं समार्पयत्। अमुना प्रोक्तं यत् “भारत-ब्राजील-दक्षिण अफ्रीका निधाँ” सहयोगार्थं भारतं वचनबद्धमस्ति । असौ प्रोक्तवती यत् अनेन कोषेण विकासस्य प्रसङ्गे पश्चवर्तिषु देशेषु निवसतां पारेलक्षं जनानां जीवनेषु सकारात्मकः प्रभावः जायते। अनेन हि दक्षिण-दक्षिण-सहयोगस्य भावनापि सुदृढीकृता अस्ति। सुश्रीकाम्बोजः एतदपि प्रोदैरयत् यत् भारतस्य जी-विंशतिः अध्यक्षतायां आयोजिते समुपवेशने जनानां, जनैः, जनेभ्यः इति विकासे ध्यान केन्द्रितम् आसीत्।
निर्धनता-बुभुक्षा-निर्मूलनार्थ भारत-ब्राजील-दक्षिण-अफ्रीका-निधेः स्थापना चतुरधिक- द्वि-सहस्र-तमे वर्षे मार्च-मासे संयुक्त-रूपेण विहिता आसीत्। अथ चानेन कोषेण षडधिक-‌द्वि-सहस्र-तमे वर्षे कार्यजातम् आरब्धम् आसीत्। अस्याः निधेः उद्देश्यः एतादृशीनाम् अनुकरणीयानां लक्ष्याधारितानाम् परियोजनानाम् अभिज्ञानमस्ति, याः परियोजनाः विकासशील देशानां याच्ञानाम् आधारे प्रयुज्येरन् । अस्याः निधेः सहयोगेन प्रवर्तमानाः परियोजनाः विकासविषये पश्चीभूतानां सहयोगि-देशानां, तेषां राष्ट्रिय-प्राथमिकताभिः साकमेव विकासस्य एतादृशानां लक्ष्यानाम् अधिगमने सहायिकाः भविष्यन्ति, एत‌द्विषये अन्ता-राष्ट्रिय-स्तरे सहमतिः जाता अस्ति।