ग्रीस-प्रधानमन्त्री-भारतयात्रा

प्रधानमन्त्री नरेन्द्रमोदिना नवदिल्ल्यां ग्रीसस्य प्रधानमन्त्रिणा किरियाकोस मित्सोताकिस इत्यमुना सह द्विपक्षीय वार्ता कृता। उभाभ्यामपि देशाभ्यां विभिन्नक्षेत्रीय- अन्ताराष्ट्रिय-प्रकरणानि आलक्ष्य चर्चा विहिता। वार्तानन्तरं उभयोः देशयोः प्रधानमन्त्रिणौ संयुक्त-संवाददाता- सम्मेलनमपि सम्बोधितवन्तौ । ताभ्यां कथितं यत् आतंकवाद-प्रकरणे उभयोः देशयोः चिन्ता समाना एवास्ति। अवसरेऽस्मिन् उभावपि देशौ उच्चशिक्षायाः क्षेत्रे परस्पर-सहयोगार्थं सहमतिं प्रकटितवन्तौ। श्रीमोदिना प्रोक्तं यत् जलपोताश्रय-सम्पर्कः सर्वोच्च-प्राथमिकतायाः क्षेत्रं अस्ति। प्रधानमन्त्री-मोदिना प्रोक्तं यत् वार्तेयं सार्थकी उपयोगी च समजायत। श्री मित्सोताकिस इत्यमुना प्रोदीरितं यत् उभौ देशौ विपक्षीयसम्बन्धान् प्रोत्साहयितुं एवं रणनीतिकस्तरेऽपि तान् संवर्धयितुं आकांक्षिणौ स्तः। तेनोदीरितं यत् अस्मिन् अवसरे कृषि-पर्यटन-साइबर- क्षेत्रं समेत्य विभिन्नक्षेत्रेषु सहयोगं संवर्धयितुं चर्चा समभवत्। इतः पूर्वं उभयोः देशयोः प्रतिनिधिमण्डल-स्तरीया चर्चा अभवत्। श्री मित्सोताकिस इत्येषः भारतस्य चतुर्दिवसात्मक-यात्रायै समागतः। श्री मित्सोताकिस एक विन्शति दिनाङ्के आरभ्य फरवरीमासस्य त्रयोविंशतिः दिनाङ्क यावत् नवदिल्ल्यां आयोज्यमाणे नवमे रायसीना-संवादे मुख्यातिथिः मुख्यवक्ता च भवतु । श्री मित्सोताकिस इत्यस्य राष्ट्रपतिभवनस्य प्रांगणे औपचारिकं स्वागतमपि विहितम्।
ग्रीसदेशात् १५ वर्षाणाम् अनन्तरं प्रथमा द्विपक्षीयराज्यप्रमुखः अथवा सर्वकारप्रमुखस्तरस्य एषा यात्रा अस्ति । ग्रीसदेशात् भारतस्य अन्तिमः प्रधानमन्त्रीयात्रा २००८ तमे वर्षे अभवत् । पीएम मोदी २०२३ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के एथेन्सनगरं गतः आसीत् ।
एमईए-प्रेसविज्ञप्त्यानुसारं २०२३ तमस्य वर्षस्य अगस्तमासे पीएम मोदी इत्यस्य ग्रीसदेशस्य भ्रमणकाले भारतस्य ग्रीसस्य च सम्बन्धाः ‘रणनीतिकसाझेदारी’ इति उन्नताः अभवन् मित्सोताकिस् एथेन्सनगरं प्रत्यागन्तुं पूर्वं मुम्बईनगरं अपि गमिष्यति ।