भाजपा दलेन आगामि लोकसभा-निर्वाचनायअभ्यर्थिनाम् प्रथमा सूची प्रसारिता।

भारतीयजनतापार्टी इत्यनेन दलेन आगामि-लोकसभानिर्वाचनाय षोडशराज्यानां द्वयोः केन्द्रशासितप्रदेशयोः च पञ्चनवत्यधिकैकशतं अभ्यर्थिनाम् प्रथमा सूची प्रसारिता। अस्यां सूच्याम् अष्टाविंशतिः महिलाः, सप्तचत्वारिंशत् यावं अभ्यर्थिनः पञ्चाशत् वर्षात् न्यूनाः सन्ति। सप्तविंशतिः अभ्यर्थिनः अनुसूचितजातीयाः, अष्टादश अनुसूचितजनजातीयाः, सप्तपञ्चाशत् अभ्यर्थिनः ओबीसीति-समुदायस्य प्रतिनिधित्वं करिष्यन्ति। सूच्यानुसारं प्रधानमन्त्री नरेन्द्रमोदी स्वीय-वाराणसी-लोकसभा-स्थानात्, रक्षामन्त्री राजनाथसिंहः लखनऊ-निर्वाचनक्षेत्रात्, केन्द्रीयगृहमन्त्री अमितशाहः गांधीनगरात्, केन्द्रीयमन्त्री स्मृति ईरानी अमेठीलोकसभाक्षेत्रात् च निर्वाचयिष्यन्ति। भाजपेतिदलस्य केन्द्रीयनिर्वाचनसमित्या अभ्यर्थीनां नामभ्यः अन्तिमरूपं प्रदत्तम्। अभ्यर्थीनां नामानि उद्घोषयता भाजपादलस्य महासचिवेन विनोद तावडे इत्यनेन नवदिल्ल्यां उक्तं यत् प्रथमसूच्यां चतुस्त्रिंशत् केन्द्रीयमन्त्रिणां राज्यमन्त्रिणां च नामानि समाविष्टानि सन्ति। प्रधानमन्त्रिणा मोदिना भाजपादलस्य प्रत्याशीरूपेण नामाङ्कितेभ्यः सर्वेभ्यः अभिनन्दनं कृतम्। एकस्मिन् सामाजिकान्तर्जालीयसंदेशे प्रधानमन्त्रिणा उक्तं यत् दलं शीघ्रमेव आगामिषु दिनेषु अवशिष्टासनानाम् अपि घोषणां करिष्यति।