कश्चन दुष्टबिडालस्य कारणात् कथायाः बालः गृहकार्यं न कृतवान्। इदं तुच्छ-क्षमाप्रर्थनायाचनमिव प्रतिभाति किल? तर्हि कथायां किमभवदिति पठतु। एकस्य कारणात् अन्यत्, अन्यस्य कारणात् अपरमिव कथा अग्रेसरिति। पठतु आनन्दञ्चानुभवतु।
किमर्थं गृहकार्यं न कृतवान्?
आर्ये! नात्र मम दोषः। सर्वः दोषः बिडाल्याः एव। यदि सा वृक्षस्योपरि विद्धा न अभविष्यत्, तर्हि अहमपि वृक्षमारोढुं निश्रेणीं न स्व्यकरिष्यम्।
यद्यहं वृक्षमारोढुं निश्रेणीं न स्व्यकरिष्यम्, तर्हि सा निश्रेणी समीकरणीया न अपतिष्यत्।
यदि सा निश्रेणी समीकरणीया न अपितिष्यत्, तर्हि तं बालम् उत्थापयितुं न अशक्ष्यम्।
यद्यहं तं बालम् उत्थापयितुं न अशक्ष्यम्, तर्हि मम माता पाकशालातः बहिः न अगमिष्यत्।
यदि मम माता पाकशालातः बहिः न अगमिष्यत्, तर्हि सः वानरः पाकशालायाः अन्तः न प्राविष्यत्।
यदि सः वानरः पाकशालायाः अन्तः न प्राविष्यत्, तर्हि सः सर्वमपि आहारं न अखादिष्यत्।
यदि सः सर्वमपि आहारं न अखादिष्यत्, तर्हि मम पिता चायापणतः रोटिकाः शाकं च न आनयिष्यत्।
यदि मम पिता चायापणतः रोटिकाः शाकं च न आनयिष्यत्, तर्हि सः शुनकः मम पितरं गृहपर्यन्तं न अन्वसरिष्यत्।
यदि सः शुनकः मम पितरं न अन्वसरिष्यत्, तर्हि सः मम गृहकार्यं न अखादिष्यत्।
तस्मात् सः शुनकः भवतः गृहकार्यं खादितवान् इति किल भवतः अभिप्रायः?
सत्यम्, आर्ये! सर्वः दोषः बिडाल्याः एव।











