शास्त्रार्थमाध्यमेनैव भारतीयज्ञानपरम्परा संरक्षिताऽस्ति – आचार्य: हरेराम: त्रिपाठी।

वार्ताहर:- डॉ.दिनेश चौबे, उज्जयिनी

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये नवदेहलीस्थकेन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गत राष्ट्रियशास्त्रार्थकौशलप्रशिक्षण विषयिका कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय : मुख्यातिथिरूपेण समागत्य स्वकीय सम्बोधने उक्तवान् यत् एवमेवातिप्राचीनकालतः प्रश्नोत्तरमाध्यमेन शास्त्रविधिना शास्त्रसंरक्षण भारते संरक्षितं वर्तते। येनाद्य अस्माकं ज्ञानपरम्परा समृद्धा विद्यते । सभाध्यक्षीयोद्वोधने कुलपतिः आचार्य: विजयकुमारसीजी महोद‌य: कथितवान् महाराज्ञ: विक्रमस्य नवरत्नरूपेण नानाशास्त्रपण्डिताः अत्रैव अभूवन् एते विश्वप्रसिद्धा: आसन्। सारस्वतातिथिः आचार्य: श्यामदेवमिश्रमहाभागः न्यायवेदव्याकरणज्योतिषादि
शास्त्राणां महत्त्वं प्रतिपादितवान् ।
संयोजकः परियोजनान्वेषक: डॉ. तुलसीदासपरोहा वाचिकस्वागतं कृत्वा प्रस्तावना प्रस्तुतीकरणपूर्वकं सविस्तरेण शास्त्रार्थपरम्परा तथा संप्रति एतस्यावश्यकताऽपि प्रतिपादितवान्। संचालनञ्च प्राध्यापक: डॉ. गंगाशरणव्यासः कृतवान् । कुलसचिवः डॉ.दिलीप सोनीमहोदयेन धन्यवादज्ञापनं कृतम्।