राजकीयमहिन्द्रामहाविद्यालये संस्कृतप्रमाणपत्रवितरणम्

श्रीमती कमलदीपकौर: सर्वाधिकाङ्कै: सहप्रथमस्थाने

वार्ताहर:- कुलदीपमैन्दोला

केन्द्रीयसंस्कृतविश्वविद्यालयदिल्लीद्वारा सम्पूर्णे भारते अनौपचारिकरूपेण संस्कृतपाठ्यक्रम: संस्कृतशिक्षणाय च संस्कृतस्य प्रचाराय प्रसाराय सञ्चाल्यते । यस्मिन् 104 केन्द्राणि निरन्तरं संस्कृतपाठ्यक्रममाध्यमेन सप्रमाणपत्राय
सञ्चालिता: सन्ति। क्रमेस्मिन्नेव राजकीयमहिन्द्रामहाविद्यालये अपि शिक्षकस्य विनयसिंहराजपूतस्य मार्गदर्शने 2022-23 सत्रस्य संस्कृतप्रमाणपत्रपाठ्यक्रम: प्राचलत् ।
यत्र प्राचार्यस्य अमरजीतसिंहस्य कुशलमार्गदर्शने केन्द्रीयसंस्कृतविश्वविद्यालयदिल्लीद्वारा संचालितस्य संस्कृतप्रमाणपत्रपाठ्यक्रमस्य 2022-23 सत्रस्य प्रमाणपत्राणि राजकीयमहिन्द्रामहाविद्यालये वितरितानि। अवसरेस्मिन् विभागाध्यक्षा कंवलजीतकौर:, शिक्षकः विनयसिंहराजपूतसहित: अन्ये शिक्षका: एवं प्रमाणपत्रियछात्राः उपस्थिताः आसन्।
२०२२-२३ संस्कृतप्रमाणपत्रपाठ्यक्रमसत्रे आयोजितायां परीक्षायां श्रीमती कमलदीपकौर: सर्वोच्चाङ्कान् प्राप्य प्रथमस्थानं प्राप्तवती । केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रयत्नेन देशे सर्वत्र अनेकासु संस्थासु विविधक्षेत्रेभ्यः जनाः निरन्तरं संस्कृतस्य अभ्यासं कुर्वन्ति। अस्याः योजनायाः अन्तर्गतं सम्पूर्णे भारते १०४ केन्द्राणि संचालिताः सन्ति ।