अस्मिन् वर्षे मार्चमासस्य २५ दिनाङ्के होली-उत्सवः भविष्यति । होली-उत्सवे ‘होलिका दहन’ इति चिह्नं भवति, यत् सामान्यतया होली-उत्सवे एकदिनपूर्वं आचर्यते ।
होलिकादहनम् इति कश्चन उत्सव: होलिपर्वणः पूर्वस्मिन दिने सायङ्काले आचर्यते । ‘होलिका’ इति काचित् राक्षसी आसीत् । एषा हिरण्यकशिपोः सहोदरी ! एषा हिरण्यकशिपोः आज्ञाम् अनुसृत्य प्रह्लादम् अग्नौ मारयितुं प्रयत्नम् अकोरत् । किन्तु तदवसरे सा स्वयम् एव मरणं प्राप्नोत् । एतस्य स्मरणाय ‘होलिकादहनम्’ आचर्यते ।
होलिकानामिका हिरण्याक्ष-हिरण्यकशिपोः सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराजः हिरण्यकशिपुः परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि सः सफलः नाभवत् । तस्मात् कुपितः हिरण्यकशिपुः सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्याः किमपि न भवति । प्रह्लादम् अग्निः दहति इति । अतः राक्षसाः होलिकायाः उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्तः । किन्तु परिणामः तु व्यतिरिक्तः जातः । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्तः प्रह्लादः भस्मराशितः बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
अपरस्मिन् दिने प्रातःकाले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति । एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रातःकाले सर्ववर्गीयाः अपि जनाः मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्यः ज्येष्ठेभ्यः च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति ।
होलिकादहनस्य कारणानि
भारतदेशस्य विभिन्नेषु भागेषु होलिकादहनस्य विभिन्नानि कारणनि श्रूयन्ते । – विष्णुः प्राविशत् इत्यतः होलिका दग्धा जाता – कस्यापि हानिः न करणीयः इति विश्वासवचनस्य आधारेण होलिका ब्रह्मणः कञ्चित् वरं प्राप्तवती आसीत् । तेन प्राप्तं कम्बलं धृत्वा सा यदि अग्नौ उपविशेत् तर्हि अग्निः तां दग्धुं न शक्नोति स्म । हिरण्यकषिपोः आदेशानुसारं होलिका कम्बलं धृत्वा प्रह्लादम् अङ्के उपावेश्य उपविष्टवती आसीत् । तदा विष्णो: आज्ञया वायु: वेगेने होलिकया: कम्बलं प्रह्लादस्य उपरि पातयति । अनुक्षणं होलिकाया: दहनं, प्रह्लादस्य रक्ष्णं च भगवतः विष्णोः सङ्क्ल्पेन भवति ।











