केजरीवालो निगडितः

दिल्लीति केन्द्रशासित प्रदेशस्य मुख्यमन्त्री अरविन्दकेजरीवाल: मद्यनीति-अनियमितताख्ये भ्रष्टाचारिकप्रकरणे प्रवर्तननिदेशालयेन निगडितः। मुख्यमन्त्रिणा सर्वमपि प्रकरणं अविधिसम्मतं राजनैतिकञ्च अस्तीति उक्त्वा निरस्तीकृतम्। आपाख्यस्य दलस्य नेतृणा आतिशीमारलेना इत्यनया प्रोक्तमस्ति यत् सर्वमपि प्रकरणं विरुध्य दलं सर्वोच्चन्यायालयं प्रति यातीति । पूर्वे दिल्ली उच्चन्यायालयः कथित धनशोधनप्रकरणं विरुध्य मुख्यमन्त्रिणं अरविन्दकेजरीवालं निगडनात् सुरक्षितं कर्तुं आदेशप्रदानाय स्वीकृतिः न प्रदत्तवान् । “कारागारात् सर्वकारस्य संचालनं सरलं नास्ति। कारागारस्य मार्गदर्शिकायां उक्तं यत् सप्ताहे द्विवारं एव भवन्तः स्वपरिवारं, मित्राणि, सहकारिणः वा मिलितुं शक्नुवन्ति। अतः एतैः प्रतिबन्धैः शासनं कर्तुं तस्य कृते सुकरं न भविष्यति।