ओडिशातः अम्निप्राइम् इति प्रक्षेपणास्त्रम् सफलतया प्रक्षेपितम्। एतत् प्रक्षेपणम् ओडिशा राज्यस्य डॉ. ए.पी.जे अब्दुलकलामद्वीपात्
परीक्षणं-सामरिक-बलम् ( एसएफसी), रक्षा-अनुसन्धान-विकास-सङ्गठनम् (डीआरडीओ) इत्यनयोः परस्पर- सहयोगेन सञ्जातम् । रक्षामन्त्रालयस्य अनुसारं नवीनश्रेण्याः बैलिस्टिक प्रक्षेपणास्त्रम् अग्नि-प्राइम् इत्यनेन् सर्वाणि परीक्षण-लक्ष्याणि प्रपूरितानि, येन तस्य कार्यक्षमतायाः विश्वसनीयता संसिद्धा अभवत् । रक्षामन्त्री-राजनाथसिंहः अग्निप्राइम् प्रक्षेपणास्त्रस्य सफलपरीक्षणम् अधिकृत्य डीआरडीओ, एसएफसी, सशस्त्रसेना इत्येतेषां अभिनन्दनं कृतवान् । सः अवदत् यत् प्रक्षेपणास्त्रस्य सफलविकासः, तस्य सेनायां प्रवेशः च, सशस्त्रबलानां कृते महत्त्वपूर्णः सिद्धः भविष्यति ।











