भाजपा-स्थापनादिवसः

भारतीयजनता-पार्टीति-दलस्य पञ्चचत्वारिंशत्तमे स्थापनादिवसे अप्रैल मासस्य षष्टं दिनाङ्के अस्य दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्र मोदी दलस्य वरिष्ठनेत्रे अमितशाहाय, दलाध्यक्षाय जगत्प्रकाश-नड्डा इत्यस्मै कार्यकर्तृभ्यश्च शुभकामनाः अपच्छत्। श्री मोदी एकस्मिन् सामाजिक सन्देशपटले दलकार्यकर्तृभ्यः वर्धापनानि प्रदत्तवान् अपि वर्षेभ्यः दलनिर्माणे कार्यकर्तृणां कठिनपरिश्रमान् संघर्षान् योगदानानि च प्रति आभारम् अभिव्यक्तवान् । असौ अवदत् यत् दलस्य एन.डी.ए.-दले समावेशनं गौरवस्य वार्तास्ति। अत्रान्तरे श्री मोदी सहारनपुरक्षेत्रे स्वीयोद्बोधने कथितवान् यत् असंख्याजनाः भाजपेतिदले समाविष्टाः यतो हि अनेन दलेन जनानां विश्वासः विजितः। अस्य कारणम् अन्यमपि अस्ति यत् अस्मै दलाय राष्ट्रं प्रथमम् अस्ति। एवञ्च अयं उद्घोषः नैव वर्तते अपितु अस्माकं विश्वासोविद्यते। स्थापनादिवसं अभिलक्ष्य श्री अमितशाहेनापि दलकार्यकर्तृभ्यः धन्यवादाः प्रकटिताः। श्री नड्डा अपि दलस्य राष्ट्रव्यापि-विस्ताराय वरिष्ठनेवृन् प्रति आभार अभिव्यक्तवान्।