जम्मू-कश्मीरयोः, मुख्यसचिवेन अटल-डुल्लू इत्यनेन ह्यः चतुर्विंशत्यधिक-द्विसहस्र-तम-वर्षस्य (संजय) इत्याख्यायाः वार्षिक-श्रीअमरनाथ-यात्रायाः सुचारूसंचालनाय प्रशासनेन कृतायाः सर्वसज्जतायाः विस्तृतसमीक्षा विहिता। आकाशवाण्याः जम्मू-संवाददात्रा ख्यापितं यत् उपवेशने आरक्षि-महानिदेशकेन, प्रशासनिक-सचिवैः, संबंधित-उपायुक्तैः अपि च अन्य विभागाध्यक्षैः, श्री अमरनाथजी श्राइन बोर्ड (एस.ए.एस.बी.), सीमा – मार्ग-संघटनेन, ऋतुविभागेन, दूरसंचार-सेवा- प्रदातृभिः, आपद्-प्रबंधन-समित्याः प्रतिनिधिभिः च सह नागरिकैः आराक्षि-बलस्य-वरिष्ठ- पदाधिकारिभिः चापि भागं भजितम्। मुख्यसचिवेन सर्वोच्च न्यायालयस्य निर्देशानां आलोके पहलगाम-बालटालयोः मार्गाणां संरक्षण-विषये बीआरओ इत्यनेन कृतानाम् उपायानां निरीक्षणं कृतम्। तेन तीर्थयात्रिभ्यः भोजन-निवासयोः कृते सुरक्षित-क्षेत्राणां सीमांकनाय समाह्वानं कृतम्। मुख्य सचिवेन तीर्थयात्रिभ्यः कष्ट-मुक्त-सेवा-प्रदातुं स्वास्थ्य, जलशक्ति, विद्युद-विकास-विभाग, परिवहन, ऋतु-विभाग चेत्यादिभिः कृतानाम् उपायानां अपि समीक्षा कृता।











