रचनाकारः – मार्कण्डेय शारदेयः (पटना, बिहारस्थः)
वसति अन्ते इति वसन्तः। अर्थात्; अन्तिमः ऋतुः वसन्तः। ‘वस्’ धातोः उणादिगणीयात् ‘झच्’ प्रत्ययात् च निष्पन्नोयं शब्दः।कथम् अन्ते? तु, चान्द्रमासाः चैत्रात्, तु सौरमासाः वैशाखात् आरब्धाः। किन्तु; ऋतुनिर्धारणे नैकमत्यम्। क्वचित् मधुश्च माधवश्च इति मासद्वयः वासन्तिकः ऋतुः। अर्थात्; चैत्र-वैशाखयोः वसन्तः, तु क्वचित् फाल्गुन-चैत्रात्मकः च।क्वचित् कुम्भ-मीनयोः, तु क्वचित् -‘मीन-मेषे गते सूर्ये वसन्तः परिकीर्तितः’ इति।सम्भवतः ऋतुराजस्य मायायां बद्धाः विद्वांसोऽपि न निर्णेतुं शक्ताः यत् कदा वसन्तः? अनेन कारणेन शिशिरे माघशुक्ले पञ्चम्याः एकं नाम वसन्तपञ्चमी इति। अर्थात्; वसन्तस्य पञ्चमः दिवसः इति। अर्थात्; अनेन मतेन माघशुक्लात् एव प्रारभ्यते ऋतुः अयम्।केचित् प्रफुल्लितान् सर्षपान् विलोक्य अनुमीयन्ते यत् ऋतुराजः आगतः।
वस्तुतः प्राकृतिकी सूचना एव उत्तमा सूचना, तथापि मतभिन्नता एव।पुष्पितेन सर्षपेण सामान्यम् अनुमानं तु विशिष्टम्-
‘मुदित- कोकिल- कूजित- काननं
मदन- सूचक- किंशुक- शोभितम्।
कुसुम- सौरभ- रञ्जित- भूधरं
कलित- मत्त- मधुव्रत- लालसम्’।।
पुनश्च;
‘फुल्लं वसन्ततिलकं तिलकं वनाल्या
लीलापरं पिककुलं कलमत्र रौति।
वात्येष पुष्पसुरभिः मलयाद्रि- वातो
यातो हरिः स मथुरां विधिना हताः स्मः’।।
कुसुमाकरस्य सहचरः कुसुमधन्वा। उभौ सखायौ मिलित्वा शृंगारम् उद्दीपयन्तः। अतः शृंगारकालोऽपि अयम्।संयोगिनां सुखदः तु वियोगिनां मर्मन्तुदः कालोऽयम्। अतः कविभिः एतादृशानि भावपूर्णानि हृच्चित्राणि स्वकाव्येषु बहूनि खचितानि ग्रथितानि च।
वसन्तस्य गुणं दृष्ट्वा एव अयम्- कुसुमाकरः, पुष्पसमयः, मधुः, मधुमासः, पुष्पमासः, सुरभिः, ऋतुराजः, माधवः, फल्गुः, पिकानन्दः, कान्तः, कामसखश्चेति गीयते।विभूतियोगे स्वयं श्रीकृष्णेन ऋतुसम्बन्धिनि आत्मपरिचये कथितम्- ‘ऋतूनां कुसुमाकरः’ इति।
वस्तुतः आदिकवितः इदानीन्तनाः अपि कवयः वसन्त-वर्णने तत्पराः। वाल्मीकेः रामः चतुर्दश- वर्षीये वनवासे अस्य ऋतोः प्रभावं बहुशः अन्वभवत्। भरद्वाजस्य आश्रमतः पम्पासरः यावत् यात्रायां प्रकृतिः विशेषेण दर्शनीया। एवमेव; महाभारतम्, पुराणानि च न वञ्चितानि वसन्त-वर्णनात्।सीता-लक्ष्मणाभ्यां सह वनशोभां पश्यन् रघुनन्दनः चित्रकूटं गच्छति।तस्मिन् अवसरे एव सः सौमित्रं सम्बोधयन् कथयति-
‘एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति।
रमणीये वनोद्देशे पुष्पसंस्तर-संकटे’।।(2.56.9)
ललितकविषु कालिदासस्य स्थानं सर्वोपरि। तस्य ऋतुसंहारस्य षष्ठे सर्गे अष्टाविंशतिषु श्लोकेषु हृद्या मधुमासस्य उपस्थितिः। तस्मात् द्वितीयः श्लोकः द्रष्टव्यः, यस्मिन् कविना सर्वत्र वसन्तः दृश्यते-
‘द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः।
सुखाः प्रदोषाः दिवसाश्च रम्याः सर्वं प्रिये चारुतरं वसन्ते’।।
शृङ्गारप्रियस्य कवेः रघुवंशाख्यं महाकाव्यम् अपि न ऋते ऋतुराजात्। नवमे सर्गे स्वतः अयं महाराजस्य दशरथस्य अभिनन्दनाय समागतः। तत्काव्यात् उद्धृतम् एकं चित्रं दर्शनीयम्-
‘उपहितं शिशिरापगम- श्रिया मुकुल- जालमशोभत किंशुकैः।
प्रणयिनीव नखक्षत- मण्डनं प्रमदया मदयार्पित- लज्जया’।।(9.31)
महाकवेः माघस्य अपि कवित्वेन न कोऽपरिचतः? तस्य शिशुपालवधम् इति महाकाव्यम् अतिप्रसिद्धम्।यथा कालिदासीये रघुवंशे दशरथस्य अभिनन्दनाय उपस्थितो वसन्तः, तथैव अस्य वैष्णव-काव्यस्य षष्ठे सर्गे श्रीकृष्णसेवायां कविना रघवंशवत् एव समाने छन्दसि, द्रुतविलम्बिते अयम् उपस्थापितः। अस्य हृदयावर्जकः एकः श्लोकः द्रष्टव्यः-
‘नवपलाश- पलाशवनं पुरः स्फुटपराग- परागत- पङ्कजम्।
मृदुलतान्त- लतान्तमवलोकयत् ससुरभिं सुरभिं सुमनोभरैः’।।
महाकवेः जयदेवस्य सुप्रसिद्धं गीतिकाव्यं गीतगोविन्दम् वसन्तमयम् एव।राधा-माधवयोः मधोः प्रभावात् उत्थितायाः उद्दीप्त्याः भावाः कविना विविधतया काव्यपटले रसिकेभ्यः उपस्थापिताः। राधासखी राधां कथयति यत् अस्मिन् विरहिजनस्य कृते असह्यमाने वासन्तिके काले कृष्णः त्वां विहाय कयाचित् अन्यया सह विरहति। एतद् उद्वेजन- कारकोंऽशः आस्वाद्यः-
‘ललित- लवङ्ग- लता- परिशीलन- कोमल- मलय- समीरे।
मधुकर- निकर- करम्बित- कोकिल- कूजित- कुञ्जकुटीरे।
विहरति हरिरिह सरसवसन्ते।
नृत्यति युवतीजनेन समं सखि विरहिजनस्य दुरन्ते’।।(3.1)
बालभारतम् इति महाकाव्ये महाकविना अमरचन्द्र सूरिणा वर्णितम् आत्मनः निरादरम् असह्यमानस्य रक्ताभनेत्रस्य कोकिलस्य क्रोधस्य कारणम् अत्र द्रष्टव्यम्-
‘विश्वत्रयं विजयते मकरध्वजोऽयम् अस्त्रीकृतेन मम कोमल-कूजितेन।
एनं तथापि कुसुमास्त्रमुशन्ति लोकाः पुंस्कोकिलोऽरुणित- दृष्टिरिति क्रुधेन’।।(7.17)
जयन्तविजयम् इति महाकाव्ये महाकविना अभयदेव सूरिणा वसन्त-जन्यां विरहदशां प्रकटयन् कथयति-
‘माधवप्रणयिना मनोभुवा मानखण्डन-विधौ मृगीदशाम्।
कोमलोऽपि कलकण्ठ- कामिनी- पञ्चमध्वनिरमीयतास्त्रासम्’।।(7.27)
युधिष्ठिरविजयम् इति अष्टोच्छ्वासात्मके महाभारत- विषयके यमककाव्ये कविवरेण वासुदेवेन रचितं मनोहरं चित्रम् अवलोकनीयम्-
‘पथिकजनानां कुरवान् कुर्वन् कुरवो बभूव नवाङ्कुरवान्।
प्रेक्ष्यं रुचं चूतस्य स्तबकेषु पिकश्चकार चञ्चू तस्य’।।(2.44)
एकं चित्रम् भर्तृहरेः शृंगारतिलकस्य अपि दर्शनीयम्-
‘सहकार- कुसुम- केसर- निकर-भरामोद- मूर्च्छित- दिगन्ते।
मधुर- मधुर- विधुर- मधुपे मधौ भवेत् कस्य नोत्कण्ठा’।।(86)
आशयोऽयं कविदृष्ट्यां वसन्तः सर्वाधिकः उद्दीपनकारकः। वस्तुतः उपस्थापिताः श्लोकाः कविमुख्यानां वसन्त-वर्णनस्य रसपेशलतायाः च एकैकं निदर्शनप्रायाः। विशेषतः तु तत्तत्काव्ये वर्णिताः प्रभूताः रसाः मनोयोगेन आस्वादनीयाः।











