नववर्षस्य आरम्भः एप्रिलमासस्य ९ दिनाङ्कात् भविष्यति
नवीनं वर्षं नववर्षमिति। नूतनवर्षस्य समारम्भो अस्माकं भारतीयानां कदा भवति इति प्रायो ये सुपठिताः जनाः सन्ति तेSपि न जानन्ति। प्रायो हि समग्रे संसारे नववर्षारम्भः जनवरीमासस्य प्रथमतारिकायां भावतीति स्वीकुर्वन्ति मन्वतेSअपि च जनाः। किन्तु भारतीयपरम्परायां नववर्षस्य समारम्भः विक्रमसम्वत्सरस्य प्रथमेSहनि भवति, इति स्वीक्रियते। विक्रमादित्यः सम्वत्सरस्य प्रवर्तनञ्चकार। अतोSस्माकं भारतीयानां नववर्षारम्भः चैत्रशुक्लप्रतिपदि भवति। एवमेव क्रिश्चियन धर्मावलम्बिनः नववर्षाराम्भं जनवरीमासस्य प्रथमेSहनि स्वीकुर्वन्ति एवमेव मुस्लिम धर्मावलम्बिनो ‘हिजरी सन्’ समारम्भस्य प्रथमं दिनं नववर्षारंभदिनं वदन्ति। अस्माभिरस्माकं मान्यतानुरोधेन नववर्षमहोत्सवः एव चैत्रशुक्लप्रतिपदि समायोजनीयः। यद्यपि सम्पूर्णे विश्वे, भारतस्य च विभिन्नेषु प्रदेशेषु भिन्नदिनेषु नूतनवर्षस्य उत्सवः भवति तथापि नूतनवर्षस्य आरम्भः भिन्नसमये भवति, परन्तु आङ्ग्लपञ्चाङ्गानुसारं नववर्षस्य आरम्भः जनवरी १ दिनाङ्कात् आरभ्य मन्यते ।
नूतनवर्षत्वात् नूतनाशाभिः, नवीनस्वप्नैः, विशेषविचारैः च स्वागतं भवति । नववर्षस्य उत्सवस्य पृष्ठे एकः विश्वासः अस्ति यत् यदि वर्षस्य प्रथमदिनम् उत्साहेन सुखेन च आचर्यते तर्हि सम्पूर्णं वर्षं तथैव उत्साहेन सुखेन च व्यतीतव्यम्।
नूतनं वत्सरं ते भवेत् मंगलम्
लक्ष्मी-वाणी-विनायक-कृपा-वर्धनम्
ज्ञान-वैराग्य-श्रद्धा-सुधा-वर्षणम्
वर्षमेतत् च स्यात् ते मुदा हर्षदम्
नूतनं वत्सरं ते भवेत् मंगलम्। 1
येन मार्गेण यात्रा भवेत् तावकी
तत्राम्लानि कुसुमानि विकसेयुः च
कण्टकं न स्पृशेत् ते पदम् कोमलम्
नूतनं वत्सरं ते भवेत् मंगलम्। 2
भारति, तावकम् वैभवं वर्धयेत्
राष्ट्रसर्वोन्नतिपथप्रशस्तम् भवेत्
नात्र कोsपि व्रजेद् दुर्गतिं दुर्मतिम्
नूतनं वत्सरं ते भवेत् मंगलम्। 3
दातुमिच्छामि बहुधा शुभा: कामना:
तत्स्मरामि हरेः पादपद्मं पुनः
यन्निरालम्बबलमेव संज्ञायते
नूतनं वत्सरं ते भवेत् मंगलम्। 4
भावयामि यशोदाप्रियं बालकम्
गोपगोपीजनाध्यक्ष-गोपालकम्
सर्वनिष्कण्टकं जायते यत्कृपा
नूतनं वत्सरं ते भवेत् मंगलम्। 5
प्रार्थयामि हिमलायसुतानायकम्
व्योमकेशं मनोनीत-वरदायकम्
कामये यत्प्रसादात् शिवं शिवतरम्
नूतनं वत्सरं ते भवेत् मंगलम्। 6
तत्स्मरामि श्रीरघुनाथ-वदनाम्बुजम्
सर्वलोकाभिरामम् सुमंदस्मितम्
यस्य वात्सल्यदृष्टि: सदा वर्षयेत्
नूतनं वत्सरं ते भवेत् मंगलम्। 7
सर्वसौभाग्यदं सुःखशांतिप्रदम्
विश्वकल्याणकारि भवेत् वत्सरम्
श्रीनिकेते रतिं च मतिं दायकम्
नित्यमनिकेतक्लेशादिसंहारणम् ।
नूतनं वत्सरं ते भवेत् मंगलम्। 8
@कुशाग्र अनिकेत











