लोकसभानिर्वाचनस्य मतदानं सप्तचरणेषु भविष्यति, येषु प्रथमः चरणः १९ एप्रिलदिनाङ्के भविष्यति।
प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतं आगामि-दश वर्षेषु आर्थिक दृष्ट्या आत्मनिर्भरं कारयितुम् आवश्यकताऽस्ति येन देशे वैश्विक परिस्थितिनाम् आधिक प्रभावं न भवेत्। प्रधानमन्त्रिणा भारतीय-रिजर्व बैंक- इत्यस्य नवति वर्षाणां सम्पूर्त्यावसरे मुम्बई नगरे आयोजिते कार्यक्रमे उक्तं यत् भारतीय बैंकिंग इत्यस्मिन् क्षेत्रे महति-परिवर्तन कथमागतम् अस्मिन् शोधस्यावश्यकता वर्तते इति। सः अवदत् यत् विगतेषु दशवर्षेषु तस्य सर्वकारेण आरबीआई इत्यनेन गृहीत-निर्णयैः बैंकेति क्षेत्रं लाभप्रदं, ऋणवृद्धिः चाभवत्। सः अवदत् यत्, पीएसयू बैङ्कानां पुनरुद्धाराय सर्वकारेण त्रीणि दसमलव पञ्च लक्षकोटिरूप्यकाणां निवेशं कृतम्। प्रधानमन्त्रिणा उक्तं यत्, एतासु सर्वासु उपलब्धिषु आरबीआई-इत्यस्य महती भूमिका अस्ति। प्रधानमन्त्री श्रीमोदी मुम्बईनगरस्य एकदिवसीय यात्रायां अस्ति। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः अपि कार्यक्रमे भागं गृहीतवती ।
कांग्रेसघोषणापत्रम्
कांग्रेसदलेन अद्य लोकसभा-निर्वाचनाय स्वकीय-दलस्य घोषणापत्रं प्रख्यापितम्। दलाध्यक्षः मल्लिकार्जुन खरगेः दलस्यास्य वरिष्ठनेतृभ्यां सोनियागांधी-राहुलगांधीभ्याञ्च सह अद्य नवदिल्ल्यां एतत् घोषणापत्रं प्रकाशितवान्। स्वीय-घोषणापत्रे कांग्रेसदलेन आधार-भूतसंरञ्चनानां विकासेन सह आगामि-दशके निर्धनतां दूरीकर्तुं च जनाः आश्वासिताः। दलेनानेन केन्द्रप्रशासने विभिन्नस्तरेषु स्वीकृत-पदेषु प्रायशः त्रिंशल्लक्षं रिक्तस्थानानां प्रपूरणस्यापि वचनं प्रदत्तम्। अपि च प्रतिदिनं चतुश्शतं रुप्यकाणां राष्ट्रिय-न्यूनतम- श्रमिक-वृत्यवसरं प्रत्येकं निर्धनपरिवारेभ्यः प्रतिवर्ष एकलक्षरूप्यकाणि, केन्द्रप्रशासनस्य पदरिक्तस्थानेषु महिलाभ्यः पञ्चाशत्प्रतिशतं आसनानाम् आरक्षणम् इत्यादीनि वचनानि अस्मिन् घोषणापत्रे प्रकाशितानि ।
निर्वाचन आयोग
निर्वाचनायोगेन महिलाः विरूध्य अपमानकारि-टिप्पण्याः कृते भारतीय जनता पार्टी-इति दलस्य सांसद-दिलीप घोषस्य, कांग्रेस-दलस्य नेतुः सुप्रिया-श्रीनेत इत्यस्याः च निन्दा कृता अस्ति। आयोगेन पश्चिम बंगाल-राज्यस्य मुख्यमन्त्रिणं ममता बनर्जी इत्येतां विरूध्य दिलीप-घोषेण कथित-वचनस्य निन्दा कुर्वता उक्तं यत् आदर्श- आचार-संहिता प्रवर्तिता अस्ति। एतदर्थं सार्वजनिकरूपेण भाषणं कुर्वन् सावहितम् भवितव्यम्। आयोग-द्वारा भारतीय जनता पार्टी इति दलस्य लोकसभा-प्रत्याशिनीं कंगना रनौत इत्येमां विरूध्य अपमानकारि-टिप्पण्यर्थं कांग्रेस-दलस्य नेतुः सुप्रिया-श्रीनेत इत्यस्याः अपि भर्त्सनं कृतम्। आयोगेन स्वकीयस्य एकस्मिन् आदेशे प्रतिपादितं यत् द्वाभ्याम् नेतृभ्याम् अनेन कृत्येन आदर्श-आचार-संहितायाः उपबन्धानाम् उल्लंघनं कृतम् अस्ति।
बीजेपी-राहुल गांधी
भाजपा-इति दलेन कांग्रेस दलस्य नेतु राहुल-गान्धिनः विरूध्य निर्वाचन आयोगे परिवादः प्रस्तुतः। कांग्रेस दल नेत्रा राहुल-गान्धिद्वारा लोकसभा निर्वाचने भाजपा दल द्वारा शासकीय-संस्थानां दुरूपयोगस्य आक्षेपाः कृताः सन्ति।











