वार्षिककेशकर्तनदिनम् (बाल कथा)

शृङ्गेरिश्रीनिवासस्य दीर्घाः केशाः आसन्। सः वर्षिककेशकर्तनदिने केशान् कर्तयामीति चिन्तितवान्। सर्वे स्वस्वकार्येषु मग्नाः आसन्। तस्मिन् दिन कः तस्य सहाय्यमाचरितवान् इति भवन्तः कदापि ज्ञातुं न शक्नुयुः। पठन्तु। आनन्दञ्चानुभवन्तु?

तत् शृङ्गेरि-श्रीनवासाय वार्षिककेशकर्तनदिनम् आसीत्। तस्मिन् दिने नापितं मेलितुं गृहात् शीघ्रमेव प्रस्थितवान् शृङ्गेरिश्रीनिवासः। तं वीक्ष्य “मम एतावत्केषकर्तनसमयः नास्ति।” इत्यवोचत् नापितः। सः निराशया “पत्न्याः सहाय्यं स्वीकरिष्यामि” इति चिन्तयन् गृहं प्रस्थितवान्। पत्नी अपि “मम पार्श्वे एतावत्दीर्घकेशकर्तनार्थं तावत्समयः नास्ति” इत्येव उक्तवती। शृङ्गेरिश्रीनिवासः कुपितः सन् स्वमित्रस्य कस्यचन सौचिकस्य पार्श्वे गतवान्। सौचिकोऽपि “अद्य मम पार्श्वे तावान् समयः नास्ति” इति प्रत्युत्तरितवान्। सविचारं स्व-अपरं तक्षकमित्रस्य पार्श्वे गतवान्। तक्षकः अपि “मम पार्श्वे तावान् समयः नास्ति” इत्येव उक्तवान्। हन्त! शृङ्गेरिश्रीनिवासस्य वार्षिककेशकर्तनदिने कोऽपि केशकर्तनाय उद्युक्तः नासीत्। रुदन् ग्रामात् बहिः विद्यमानम् अरण्यं प्रविष्टवान्। कस्याश्चित् गुहायाः निकटे रुदन् उपविष्टवान्। “हे! भगवन्! अद्यतनदिनं समाप्तम्। मम वार्षिककेशकर्तनदिनेऽपि अहं केशान् कर्तयितुं न शक्तवान्। सहाय्यं कुरु मे देव!” इति उच्चैः क्रन्दितवान्।
तस्य रोदनशब्देन गुहायां शान्ततया निद्रामग्नस्य व्याघ्रस्य निद्राभङ्गः अभवत्। गर्जन्, स्वदीर्घप्रहस्तौ दर्शयन् शृङ्गेरिश्रीनिवासस्य उपरि कूर्दितवान्। सः तावान् भयमनुभूतवान् यत्……. यत्……. यत्…….।. तस्य शिरसः केशाः सर्वे विदीर्णाः अभवन्। मुण्डितशिरः शृङ्गेरिश्रीनिवासः ग्राममभिमुखीकृत्य धावितवान्। व्याघ्रः पुनः निद्रायां मग्नः अभवत्।