सर्वासु महिलासु भगवतीरूपदर्शनेन विश्वकल्याणं सम्भव: – ‘रमाकान्तकुकरेती’
वार्ताहर:- कुलदीपमैन्दोला कोटद्वारं
ग्राम्य-एकताप्रगति- प्रेमांजलिसमागमसमितिद्वारा चैत्रशुक्लप्रतिपदाविक्रम- संवत्सरस्य 2081नववर्षस्य शुभावसरे मातृशैलपुत्र्या: पूजनं अत्युत्साहेन आचरितं । कार्यक्रमस्य अध्यक्षता श्रीमतीनीरजागौडद्वारा च मुख्यातिथ्यं प्रधानाचार्येण
रमाकान्तकुकरेतीद्वारा च विशिष्टातिथ्यं शिक्षाविद् कुलदीपमैन्दोलाद्वारा उपस्थाय अलंकृतं। अतिथिभि: मातृशारदाया: च भगवत: श्रीरामस्य चित्रस्य सम्मुखे दीपं प्रज्ज्वाल्य स्वस्तिपाठेन च पुष्पश्रद्धांजलिना सह कार्यक्रमस्य आरम्भ: कृत: । अवसरेस्मिन् आञ्चलबिष्टद्वारा सरस्वतीवन्दना एवं श्रीमतीसुनीताममगेद्वारा भजनं एवं खुशीनेगीद्वारा तथा आरुषीरावतद्वारा समूहगीतं स्वागतगीतं च मृदुं गीत्वा सर्वे मोहिता: ।
अस्मिन् अवसरे “गेप्स” इत्यस्य सहसचिववर्या अध्यापिका च श्रीमती मीनाक्षीबर्थवालवर्या उत्तमसमाजसेवायाः संगठनात्मकसमर्थनस्य च कृते सम्मानितवस्त्रेण, समृतिफलकेन, सम्मानपत्रेण सहैव शैलपुत्रीसम्मानेन अलंकृता अभवत् । संस्थापकेन रामभरोसेकण्डवालद्वारा सम्मानपत्रस्य वाचनं कृतं । मुख्यातिथिद्वारा अवसरेस्मिन् प्रोक्तं यत् सर्वासु महिलासु भगवतीरूपदर्शनेन विश्वकल्याणं सम्भव: अस्ति । विशिष्टातिथिरूपेण कुलदीपमैन्दोलाद्वारा कथितं यत् देवीरूपेण या नारी सा सर्वत्र सुपूजिता ।
कार्यक्रमस्य संचालनं कोषाध्यक्षेण मनमोहनकालाद्वारा विहितं। समारोहेस्मिन् श्रीमतीनीरजागौडद्वारा उपस्थितेभ्यः सर्वेभ्यः अतिथिभ्यः जनेभ्यः च नववर्षस्य शुभकामना: प्रेषिता: तथा च श्रीमतीमीनाक्षीबर्थवालवर्यायै सम्मानं प्रदाय कार्यक्रमस्य समापनस्य घोषणा कृता। आयोजनेस्मिन् रमाकान्तकुकरेती, कुलदीपमैन्दोला, नीरजा गौड:, सुबोधगौड:, सुनीताममगे, दिनेशचंद्रचौधरी, नंदनसिंह: नेगी, मनमोहनकाला, आंचलविष्ट:, अभियंता जगतसिंहनेगी, श्रीमती रेखा ध्यानी, श्रीमती सोमप्रभा कण्डवाल:, आरुषी , खुशी तथा मीनाक्षी आदय: उपस्थिता: आसन्।











