जलियांवाला – वीरसैनिकाः

  • एषा दुःखदघटना १९१९ तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्के अभवत् ।
  • अद्य अस्याः घटनायाः १०४ वर्षाणि व्यतीतानि
  • ब्रिटिशसैनिकाः केवलं १० निमेषेषु कुलम् १६५० गोलानि प्रहारं कृतवन्तः ।
  • अनधिकृतानां आँकडानां अनुसारं अस्मिन् नरसंहारे १००० तः अधिकाः जनाः शहीदाः अभवन्, २००० तः अधिकाः भारतीयाः च घातिताः अभवन् ।

देशेन एप्रिल-मासस्य १३ दिनाङ्के जलियांवाला-बाग-नरसंहारस्य वीरसैनिकाः स्मर्यन्ते। अस्मिन् एव दिने नवदशाधिक नवदशतमे वर्षे ब्रिटिश-जनरल डायर इत्यनेन भारतस्य पञ्जाबक्षेत्रस्य अमृतसरे बैसाखी उत्सवं मानयितुं जलियांवाला बाग स्थले समागतानां शताधिकानां निःशस्त्राणां जनानां उपरि गोलिकाप्रहारस्य आदेशः प्रदत्तः आसीत् शताधिकाः जनाः मारिताः अनेके च व्रणिताः जाताः।
राष्ट्रपतिः द्रौपदीमुर्मुः उपराष्ट्रपतिः जगदीपधनखड़ प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीयमन्त्रिणौ अमितशाह-डॉ० एस्. जयशंकरौ च जलियांवाला-बाग-प्रकरणे हुतिंगतेभ्यः वीरेभ्यः श्रद्धाञ्जलिं
समर्पितवन्तः ।