वार्ताहर:-डॉ.दिनेश: चौबे, उज्जयिनी
उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य ज्योतिषविभागस्य तत्त्वावधाने एप्रिल मासस्य 27 तमेदिनाङ्के सायं ४ वादने ‘लग्नभावफलविचारः’ इति विषये आभासीपटलमाध्यमेन विशिष्टव्याख्यानस्य आयोजनं कृतम् । मुख्यवक्तृरूपेण श्रीसोमनाथसंस्कृत
विश्वविद्यालयस्य, वेरावलस्य, गुजरातस्य ज्योतिषविभागस्य सहायिकाचार्या डॉ. अपूर्वाअग्रवालमहोदया लग्नस्य परिभाषषाखगोलीयस्थिती, कुण्डलीविधानस्य सम्यक् गणितीय एवञ्च फलितीय पक्षाणाम् उपस्थापनेन साकं आचार्यपराशर:, मन्त्रेशादिप्राचीन आचार्याणाम् उद्धरणं , त्रिकदोषस्य निवारणं, शारीरिकसुखस्यभावः, वृत्तिप्राप्तिः इत्यादि विषये प्रमुखतया उद्बोधितवती। कार्यक्रमसंरक्षकः माननीय: कुलगुरु: आचार्य: विजयकुमारसीजीमहोदयः ज्योतिषशास्त्रस्य वैज्ञानिकपक्षनामुपरी सभां संबोधितवान् । सत्राध्यक्षता ज्योतिषविभागाध्यक्षेन डॉ. उपेन्द्रभार्गवमहोदयेन विहिता । स्वागतभाषणं डॉ. योगेशकुमारेण संचालनं डॉ. पवनकुमारमिश्रमहोदयेन धन्यवादज्ञापनञ्च डॉ. रूपेशकुमारमिश्रेण कृतम्। व्याख्यानकार्यक्रमे देशस्य- विदेशस्य च बुद्धिजीविनः, छात्राः, शिक्षकाः च वर्चुअल् प्लेटफॉर्म Zoom App इत्यस्य माध्यमेन कार्यक्रमे सम्मिलिताः अभवन् । कल्याणमन्त्रेण सेः कार्यक्रमस्य समाप्तिः अभवत्।











