लोकसभा निर्वाचनं – मतदानम् आरभ्यते

अस्य मासस्य नवदशतमे दिने सामान्य-निर्वाचनस्य प्रथमचरणे द्विषष्टिः दशमलव-त्रीणि-सप्त-प्रतिशतादधिकानि मतदानानि समभवन्। मतदानं शान्तिपूर्णरीत्या संपन्नम्। मतदातृभिः नागरिक दायित्वस्य गौरवस्य च समीचीनं प्रदर्शनं कृतम्। अत्युष्णलहर्याः प्रकोपेऽपि जनैः उत्साहेन मतदानं विहितम्। प्रथमचरणे सप्तदशराज्यानां चतुर्णां केन्द्रशासितप्रदेशानां च द्वयधिकैकशतासनेषु मतदानानि समभवन्। निर्वाचनायोगेन अवसरेऽस्मिन् सर्वेभ्यः मतदातृभ्यः कार्यकर्तृभ्यश्च धन्यवादो ज्ञापितः। अस्मिन् प्रथमचरणे दशराज्यानां केन्द्रशासित प्रदेशनाञ्च सर्वेभ्यः संसदीयक्षेत्रेभ्यः मतदानं अभवत्। त्रिपुरा-जम्मूकश्मीरयोः लोकसभानिर्वाचनाय चरणेsस्मिन् पञ्चविंशत्यधिकषोडशशतप्रत्याशिनः सन्ति । अत्र प्रमुखेषु प्रत्याशिषु नितिन गडकरी, किरन रिजिजू, डॉ जितेन्द्र सिंह, संजीव बालियान, तमिलिसाई- सुन्दरराजनादि सहित जितिन प्रसादोऽपि वर्तते। विपक्षतः च गौरवगोगोई, कार्तिचिदम्बरम्, नकुलनाथः अस्ति। डी-एम-के पक्षतः दयानिधिमारनः अस्ति। एतेषां सर्वेषां भाग्यविन्दवः सम्प्रति ईवीएम संयन्त्रेपिहिताः सन्ति । अस्मिन् चरणे सार्घषोडशकोट्यधिकेभ्यः मतदातृभ्यः सार्धैक्यलक्षाधिकानि मतदानकेन्द्राणि निर्मितानि सन्ति। प्रायशः षड्त्रिंशल्लक्षाधिकाः पप्रथमीयाः मतदातारः प्रथमचरणेस्मिन् मतदानं कृतवन्तः। प्रथमचरणीय मतदानं विभिन्नेषु क्षेत्रेषु द्विषष्ठिः दशमलव सप्तत्रिंशत् प्रतिशतम् जातम् ।
प्रथमचरणस्य समाप्तेः अनन्तरं लोकसभानिर्वाचनस्य द्वितीय-चरणार्थ प्रचाराभियानं जवीयगत्या प्रवर्तते। द्वितीय-चरणे अस्य मासस्य षड्विंशे दिनाङ्के द्वादश-राज्यानां केन्द्रशासितप्रदेशानाञ्च अष्टाशीतिः संसदीयासनेषु सममेव मणिपुर-लोकसभाक्षेत्रस्य अवशिष्टभागेषु मतदानानि भविष्यन्ति। अवसरेऽस्मिन् केरलस्य विंशतिः आसनानि, कर्णाटकस्य चतुर्दशासनानि, राजस्थानस्य त्रयोदशासनानि, उत्तरप्रदेशस्य अष्टौ, महाराष्ट्रस्य अष्टौ, मध्यप्रदेशस्य सप्तासनानि, असमस्य पञ्चासनानि, बिहारस्यापि पञ्चासनानि, पश्चिमबंगालस्य त्रीणि आसनानि, छत्तीसगढ़स्यापि त्रीणि आसनानि, त्रिपुरा- जम्मूकश्मीरयोः एकं-एकं आसनं समेत्य द्वितीयचरणे मतदानानि भविष्यन्ति। विभिन्न राजनैतिक-दलानां वष्ठिनेतारः मतदातृन् आक्रष्टुं अशेषे हि देशे जनसभाः सम्बोधने दत्तचिताः सन्ति। प्रधानमन्त्री एवं भाजपेति दलस्य वरिष्ठ-नेता नरेन्द्रमोदी महाराष्ट्रस्य नांदेड़-परभणी-स्थलयोः जनसभां सम्बोधितवान्। श्रीमोदिना लोकसभा-निर्वाचनस्य प्रथमचरणे महत्संख्यायां मतदानार्थं प्रसन्नता प्रकटिता। तेनोदीरितं यत् देशे जायमानस्य लोकतन्त्रोत्सवस्य काले इतोऽपि मतदानानां सुनिश्चयो भवेत्। अत्रावसरे तेन एनडीए-सर्वकारस्य- उपलब्धयः अपि प्रकाशिताः। एतस्मिन्नन्तर्गतं लक्षाधिकाभ्यः महिलाभ्यः शौचालयप्रदानम् निर्धनेभ्यः वित्तकोषस्य सौविध्यप्रदानम्, यूपीआई-प्रविधेः समारम्भः, इत्येताः सुविधाः सन्ति। प्रधानमन्त्री नरेन्द्र मोदी चिक्काबल्लापुर- बेङ्गलुरु स्थलयोः अपि सार्वजनिक-उपवेशनं विधास्यति। कर्णाटकस्य मुख्यमन्त्री एवं कांग्रेस-नेता सिद्धारमैया मैसूरे एवं मांड्या-निर्वाचनक्षेत्रेषु निर्वाचनप्रचारं कुर्वन्नस्ति। अपरत्र कर्णाटकस्य उपमुख्यमन्त्री डी.के. शिवकुमारः मांड्यायां निर्वाचनप्रचारं कुर्वन् । कांग्रेस-नेत्रा राहुल-गान्धिना बिहारस्य भागलपुरे नैर्वाचनिक-जनसभा सम्बोधिता।
लोकसभा-निर्वाचनस्य तृतीयचरणाय नामाङ्कनप्रपूरणप्रक्रिया नामाङ्कपत्राणां निरीक्षणम् च समाप्ता जाता। एतस्मिन् तृतीयचरणे दशराज्येषु द्वयोःकेन्द्र-शासितप्रदेशयोश्च चतुर्नवति-संसदीय-क्षेत्रेभ्यः मईमासस्य गुप्तमे दिनांके मतदानं भविष्यति। गुजरातराज्ये लोकसभानिर्वाचनस्य विधानसभानिर्वचनस्य च
उपनिर्वाचनस्य नामांकन पत्रनिरीक्षणं प्रचलति। ध्येयं वर्तते यत् लोकसभानिर्वाचनस्य चतुर्थचरणाय नामाङ्कपत्रपूरणस्य कार्यं अस्य मासस्य पञ्चविंशे दिने भविता। एतस्मिन् चतुर्थ चरणे मईमासस्य त्रयोदशदिनांके नवराज्यानां एकस्य केन्द्रशासितप्रदेशस्य षण्णवति-लोकसभा-क्षेत्रेभ्यः मतदानानि भविष्यन्ति।