महिला-कलाशाला, अनन्तपुरम् एवञ्च संस्कृतभारती, अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन अनन्तपुरस्थे नेहरू-युवकेन्द्रे संस्कृतसम्भाषणवर्गः समुद्घाटितः

वार्ताहर:- आचार्यः विशालप्रसादभट्टः

संस्कृतं चिरपुरातनी नित्यनूतना च भाषा वर्तते। संस्कृतं भारतीयसंस्कृतेः सम्पोषिका प्राणवाहिका भाषा चास्ति।अतः भारतीयज्ञानपरम्परायाः ज्ञानाय संस्कृतस्य अध्ययनं परमावश्यकम् – आचार्यः विशालप्रसादभट्टः अनौपचारिकसंस्कृतशिक्षकः केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली

अनन्तपुरम् ,आन्ध्रप्रदेशः 01.05.2024 तमे दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली द्वारा सञ्चालितम् अनौपचारिकसंस्कृतशिक्षणकेन्द्रं के. एस. एन. प्रभुत्त्व- महिला-कलाशाला, अनन्तपुरम् एवञ्च संस्कृतभारती, अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन अनन्तपुरस्थे नेहरू-युवकेन्द्रे संस्कृतसम्भाषणवर्गः समुद्घाटितः।
तत्रादौ वर्गस्यास्य शुभारम्भः दीपप्रज्वालनेन सरस्वत्याः वन्दनया मङ्गलाचरणेन च समभवत्। तदनु कार्यक्रमस्य संयोजकः डॉ.के.काशीविश्वेश्वरशर्ममहोदयः कार्यक्रमस्य अतिथीनां परिचयं स्वागतं च कृतवान्। तेनोक्तं यत् ऐषमः संस्कृतसम्भाषणवर्गः सामाजिकजनानां कृते मेमासस्य प्रथमदिनाङ्कतः दशमदिनाङ्कपर्यन्तं सायंकाले समायोज्यते। कार्यक्रमस्य मुख्यातिथिः डॉ. एन. रङ्गस्वामिवर्यः उक्तवान् यत् संस्कृतं भारतीयसंस्कृतेः मुख्याधारः वर्तते। संस्कृतं विना भारतीयसंस्कृतेः कल्पना कथमपि कर्तुं न शक्यते। अतः वयं भारतीयाः अवश्यमेव गौरवेण संस्कृतं पठामः। संस्कृतसम्भाषणवर्गशिक्षकः आचार्यः विशालप्रसादभट्टः केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिचयं कारयित्वा वर्गस्य वैशिष्ट्यं प्रतिपादितवान्। तेनोक्तं यत् वर्गेस्मिन् वयं दशसु दिवसेषु सरलतया प्रत्यक्षविधिना संस्कृतगीत-कथा-क्रीडा-वस्तुप्रदर्शनादिभिः विविधमाध्यमैः अत्यन्तं रोचकतया संस्कृतसम्भाषणं पठामः येन वयं दैनिकजीवने सरलसंस्कृतेन व्यवहारं कर्तुं शक्नुमः। वर्गेस्मिन् 15 सामाजिकाः जनाः भागं गृह्णन्ति।