संस्कृतस्य शास्त्रीयलौकिकस्वरूपयो: च अध्ययनस्य आवश्यकता विद्यते- आचार्य: विजयकुमार: सीजी

वार्ताहर:-डॉ.दिनेश: चौबे, उज्जयिनी

उज्जयिनीस्थस्यमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रम् एवञ्च भारतीयभाषासमिति:, नवदेहली इत्यनयोः संयुक्ततत्त्वावधाने 2024 अप्रैलमासस्य अष्टतमेदिनाङ्के श्रीमहाकालेश्वर वैदिकशोधप्रशिक्षणसंस्थानम्, चिंतामनगणेशमार्ग: उज्जयिन्याम् एकदिवसीया सरलमानकसंस्कृतराष्ट्रीय कार्यशालायाः आयोजनम् अभवत् । प्रात:10:30 वादने कार्यशालाया: उद्घाटनसत्रे विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारसीजीमहोदय: अध्यक्षरूपेण उपस्थित: आसीत्। ।महोदयेन स्वउद्बोधने उक्तं यत् संस्कृतस्य सरलमानकस्वरूपस्य शास्त्रीयपरिनिष्ठितस्वरूपस्य च प्रयोगस्य आवश्यकता वर्तते । सरलसंस्कृतमाध्यमेन वयं संस्कृतस्य प्रभावः पुनः लोके प्रतिष्ठापयितुं शक्नुम: । कार्यशालाया: संयोजकेन केंद्रनिदेशकेन च डॉ. अखिलेश कुमारद्विवेदीमहोदयेन प्रस्तावना कार्ययोजना च प्रस्तुता।
श्रीमहाकालेश्वरवैदिकशोध प्रशिक्षणसंस्थानस्य निदेशकेन डॉ. पीयूषत्रिपाठिवर्येण वाचिकस्वागतं संस्कृतसंवर्द्धन विषयकम् उपायान च प्रस्तुतम् । कार्यशालायां पृथक् पृथक् सत्रस्य आयोजनं जातम् आसीत्। विषयविशेषज्ञै: संस्कृतस्य प्रभावः उपयोगिता च विषये उद्वोधितम्।
उद्घाटनसमापनसत्रस्य संचालनं, समन्वयकेन डॉ. दिनेशचौबेमहोदयेन आभारज्ञापनञ्च डॉ. रमेशशुक्लवर्येण ,प्राध्यापकेन श्रीमहाकालेश्वरवैदिकशोध संस्थानेन कृतम्। कार्यशालायां डॉ.राजेशमंडल: श्रीअपूर्वपौराणिक: छात्रा:- शोधच्छात्रा: , संस्कृतशिक्षका: च सम्मिलिता: अभवन् । कल्याणमन्त्रेण सह कार्यशालाया: समारोप: अभूत्।