वार्ताहर:- डॉ.दिनेश चौबे, उज्जयिनी
उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य योगविभागस्य तत्वावधाने योगशास्त्रे चित्तस्वरूपं संस्कारविज्ञानाञ्च इति विषये आभाषीयपटलमाध्यमेन ४ मै तमे दिनाङ्के सायं ४ वादनत: विशिष्टव्याख्यानस्य आयोजनं जातम् । तत्र मुख्यवक्त्रीरूपेण डॉ. अंजना शर्मा, सहाचार्या संस्कृतदर्शनवैदिकाध्ययनविभाग: राजस्थानवनस्थलीविद्यापीठम् आसीत् । महोदया स्वव्याख्याने पातञ्जलयोगदर्शने वर्णितानां तत्त्वानां मानसिकदशाप्रकाराणां च परिभाषा , अष्टाङ्गयोगस्य उद्धरणं च प्रस्तुत्य, मनसः स्वरूपं संस्कृतिविज्ञानं च विषये संक्षिप्तं वक्तव्यं प्रदत्तवती । संरक्षक:, कुलगुरुः आचार्यः विजयकुमारसीजीमहोदयः योगविभागाय व्याख्यानस्य कृते नैका: शुभकामना: प्रदत्तवान्। कुलसचिवेन प्रो.दिलीपसोनी महोदयेनापि व्याख्यानस्य सफलायोजनार्थं शुभकामना: दत्ता। सत्रस्याध्यक्षा योगविभागप्रमुखा डॉ.पूजा उपाध्यायमहोदया अवदत् यत् योगस्य व्यवहारिकपक्षेणसह दार्शनिकपक्षस्य ज्ञानस्य आवश्यकता वर्तते। स्वागतभाषणं डॉ. वरुण आहूजा महोदयेन , संचालनं सुश्रीईशा पाटीदारमहोदयाइत्यनया, धन्यवादज्ञापनं च रघुवीरपटेलमहोदयेन कृतम्। व्याख्यानकार्यक्रमे छात्राः, शोधकर्तारः, विभागप्रमुखाः, शिक्षकाः इत्यादया: सम्मिलितो भूत्वा वर्चुअल् प्लेटफॉर्म जूमएप इत्यस्य माध्यमेन व्याख्यानं श्रुतवन्तः। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनम् अभवत्।











