केन्द्रीय-गृह-मन्त्रालयेन राष्ट्रिय-राजधान्यां तत्पार्श्ववर्ति-क्षेत्रेषु च अनेकेषु विद्यालयेषु विस्फो जि-तर्जना-विषयकम् ई-मेल-पत्रकं केवलं मृषा अपलापः प्रतिपादितः। मन्त्रालयेन अभिभावकाः छात्राश्च प्रोक्ताः यत्ते तर्जनया अनया आपीड-ग्रस्ताः नैव भवेयुः। अथ च मन्त्रालयेन इदमपि प्रतिपादितं यत् दिल्ल्यारक्षि-बलं सुरक्षाभिकरणानि च अस्मिन् प्रसंगे आवश्यकान् पदक्षेपान् उपक्रमांश्च उत्थापयन्ति। दिल्ल्या-बलेन विद्यालयेषु विहितेषु अन्वेषणेषु न किमपि सन्दिग्धम् अधिगतम्। अस्मिन् प्रसङ्गे दिल्ल्याः उपराज्यपालेन विनयकुमार-सक्सेना-इत्यनेन दिल्ल्यारक्षि-आयुक्तं सञ्जय अरोडा-वर्यं विस्तृतं विवरणम् अभियाचितम् अस्ति।
दिल्ल्यारक्षि बलं निर्दिम् अस्ति यत् दोषिणाम् अभिज्ञान-पुरस्सरं तेषु कार्यान्वयनमपि सुनिश्चितं कुर्यात् इति। सक्सेना-वर्येण प्रोक्तं यत् उपद्रविणः दोषिणश्च न कदापि क्षमिष्यन्ते। अथ च सक्सेना-महाभागेन कतिपय विद्यालयानां निरीक्षण-यात्रापि सम्पादिता। यत्र विस्फोक्रि-स्थापनस्य मृषा सूचना प्रख्यापिता आसीत्। अधुना सञ्चार माध्यमैः समं सम्भाषणावसरे प्रोदीरितं यत् अस्मिन् विस्फोसर्जना विषये त्वरितमेव कार्यान्वयनम् आचरितम्। दिल्ल्यारक्षि-बलेन तर्जना-पत्रकस्य स्रोतसो विषयेऽपि अभिज्ञानं स्वीकृतम् अस्ति ।











