मम मञ्चस्य अध: (बाल कथा)

कदाचित मम मञ्चस्य अधः विचित्र वस्तूनि विद्यन्ते। अपि भवन्तः, कस्याञ्चित् रत्रौ मया तत्र किं लक्षितमिति ज्ञातुम् इच्छन्ति?

पिपासया अहं रात्रौ जागर्मि। जलं पातुम् इच्छामि। मञ्चस्य अधः पादुकौ अन्विषामि। हा… हन्त! तत्र एकः व्याघ्रः अपि अस्ति! इदानीं अहं किं करवाणि? मातरम् आह्वयानि वा? यदि व्यघ्रः उथाय गर्जति तर्हि? पुनः निद्रां करवाणि वा? परन्तु इदानीं निद्रापि न उपसर्पति। तदा केनचित् दीपज्वालनं कृतम्। अम्बा द्वारसमीपं स्थिता दृष्टा। किमभवत् वत्स? अपि आकारितं त्वया?मया व्याघ्रं प्रति निर्दिष्टम्। अम्बा किञ्चित् अवनमय्य मञ्चस्य अधस्तात् व्याघ्रम् उद्धृतवती।
हे किमिदं? एषः तु व्याघ्रः नास्ति। एषः तु मम पीत-कृष्णवर्णमयः स्वेदकः।
अहं कारणं विना भीतः आसम्। अम्बा जलम् आनीतवती। अधुना अहं निद्रामि। वनचारिणः वास्तविक-व्याघ्रस्य विषये स्वप्नमपि पश्यामि।