- राष्ट्रपति द्रौपदी मुर्मू इत्यनेन भारतीयवनसेवायाः २०२२ बैचस्य सर्वेभ्यः प्रशिक्षुपदाधिकारिभ्यः अभिनन्दनं कृत्वा उक्तं यत् अस्मिन् बैचे १० महिलाधिकारिणः सन्ति।
- राष्ट्रपति मुर्मू इत्यनेन उक्तं यत्, “महिलाः समाजे प्रगतिशीलपरिवर्तनस्य प्रतीकाः सन्ति। पर्यावरणक्षेत्रे राष्ट्रियवन-अकादमी अतीव महत्त्वपूर्णां भूमिकां निर्वहति। भारतीयवनसेवायाः अधिकारिणां दायित्वं वनानां संरक्षणं, संवर्धनं, पोषणं च भवति।”
- सा अपि अवदत् यत् अद्यत्वे प्राथमिकता जनकेन्द्रितं प्रकृतिकेन्द्रितं च भवितुमर्हति।
विगत चतुर्विन्शति दिनाङ्के देहरादूननगरे वनानुसन्धान-संस्थाने भारतीय-वन-सेवायाः परिवीक्षाधीनानां दीक्षान्त- समारोहं सम्बोधयन्ती राष्ट्रपतिपदारूढा द्रौपदीमुर्मुः जलवायुमण्डल-परिवर्तन-सम्बद्ध-समस्याः प्रकाशितवती अपि च तत्सम्बद्धानां समस्यानां समाधानाय वन-संरक्षण-भूमिकाः अपि प्रख्यापितवती। राष्ट्रपतिः प्रावोचत् यत् मानवाः सायासं वनानां महत्वं विस्मारयन्ति। अनया सबलं प्रख्यापितं यत् मनुष्याः अस्याः पृथिव्याः अमूल्य संसाधनानां स्वामिनः नैव सन्ति अपि तु संरक्षकाः सन्ति । अत्रावसरे राष्ट्रपतिः परिवीक्षा अधिकारिणः वनसंरक्षण-संवर्धन- पोषणानां महत्वपूर्ण-कर्तव्यानि प्रति प्रोत्साहितवती। अनयाः विश्वासः अभिव्यक्तः यत् एते अधिकारिणः एताः वार्ताः हृदि निध्याय पूर्णमनसा कार्यं समाचरिष्यन्ति। अवधेयं वर्तते यत् एतस्मिन् प्रख्याते दीक्षान्त समारोहे इन्दिरा-गांधी-राष्ट्रिय-वनाकादम्याः नवनवति परिवीक्षार्थिभिः समं मित्रराष्ट्रस्य भूटानस्य प्रशिक्षु-अधिकारी-द्वयेनापि अकादम्याः द्विवर्षीयः पाठ्यक्रमः सम्पूरितः। वर्तमानसत्रे मध्यप्रदेशाय सर्वाधिकं पंचदश उत्तराखण्डाय च त्रयः अधिकारिणः मिलिताः।











