समस्यानां विश्लेषणं करणीयम् – सी. एम. धामी
अस्य मासस्य दशम दिने शुक्रवासरे उत्तराखण्डे पवित्रा चतुर्धाम यात्रा प्रारम्भा। अक्षयतृतीयायाः शुभावसरे केदारनाथ- गङ्गोत्री-यमुनोत्री-इत्येतेषां पवित्रद्वाराणि श्रद्धालूनां तीर्थयात्रिणां च कृते उद्घाटितानि। शुभावसरे प्रातः केदारनाथधाम्नः द्वारं वैदिकमन्त्रोच्चारणैः पारम्परिकानुष्ठानादिभिः च उद्घाटितम्, येन चतुर्धामयात्रा समारब्धा । भक्तानां सम्मर्दम् अवलोक्य मुख्यमन्त्री पुष्करसिंहधामी, तीर्थयात्रिणां कृते, अन्ताराज्यीय-अन्ताराष्ट्रीययोः सौविध्यानां सम्वर्धनाय सर्वकारस्य दृढप्रतिबद्धतां बोधितवान्। केदारनाथदेवालये उद्घाटनसमारोहः प्रातः ऊनविंशति निमेषाधिक दश वादने यमुनोत्रीतीर्थ-द्वारस्य अनावरणं कृतम्, तदनन्तरं मध्याह्ने गङ्गोत्री धाम-द्वारस्य उद्घाटनं जातम्। तदनन्तरं द्वादश दिनाङ्के रविवासरे उत्तराखण्ड्स्य चमोली जनपदे स्थितस्य प्रसिद्दः बद्रीनाथ् धाम्नः कपाटानि प्रातः षड वादने वैदिक मन्त्रोच्चारेण सह उद्घाटितानि । अस्मिन् अवसरे बृहत् सङ्ख्यायां श्रद्धालवः उपस्थिताः अवर्तन्त । बद्रीनाथ मन्दिरं पुष्पै सज्जितं वर्तते। बद्रीनाथ- धाम्नः कपाटोद्घाटनेन सह धामचतुष्टयम् अपि श्रद्धालुभ्यः उद्घाटितम्।
आरम्भस्य शीघ्रमेव चतुर्धामयात्रावधौ श्रद्धालूनाम् अत्यधिकं सम्मर्दम् अवलोक्य यात्रिणां प्रत्यक्षतया सम्भाव्यमाना पञ्जीकरणप्रक्रिया मईमासस्य एकत्रिंशद्दिनांकं यावत् स्थगिता जाता। राज्यस्य मुख्यमन्त्री पुष्कर-सिंह-धामी देहरादूननगरे जाते एकस्मिन् उपवेशने एतेदिङ्निर्देशाः प्रसारिताः। अत्रान्तरे राज्ये चतुर्धामयात्रा सम्यक्तया प्रचलत्येव। सीएम धामी उक्तवान् यत् केदारनाथ-यमुनोत्री-नगरयोः नोडल-अधिकारिणः रूपेण येषां सर्वकार-पुलिस-अधिकारिणां दायित्वं दत्तम् अस्ति, ते निरन्तरं क्षेत्रे एव तिष्ठेयुः।











