चम्पाया: संगीते स्नेह: वर्तते। किन्तु सा रङ्गमञ्चे गातुं न शक्नोति। किन्तु विद्यालयस्य वार्षिकानुष्ठानदिवसे जनताम् अभित: किं सा परिशेषे साफल्यं लभिष्यते?
समग्रे विश्वे सर्वेषां प्रथमे चम्पा आधिक्येन गाने स्निह्यति। सा स्नानागारे गायति। सा पटलस्य उपरि गायति। सा पर्वतस्य उपरि अपि गायति, सा चन्द्रं प्रति अपि गायति। सा सिंह इव गायति, सा मधुमक्षिका इव गायति। सा वृष्टे: मध्ये गायति तपमध्येऽपि गायति। यदा चम्पा गायति, तदा सा विश्वस्य अद्भुतानुभूत्या परिपूर्णा भवति। एकदा यदा चम्पा गायति, तदा वसन्तस्य नयने प्रज्ज्वलत:। मम एका अपूर्वा धारणा वर्तते। वसन्त: चम्पाया: उत्तमं मित्रम्। स सर्वदा तस्य कांचित् भयङ्करीं धारणां प्रकटीकरोति ।
“त्वया वार्षिकानुष्ठानदिवसे गीतं गेयम्।” वसन्तेन उक्तम्। “का भीषणा धारणा!” चम्पया उक्तम्। “कथं न!” त्वं गीते स्निह्यसि। चम्पा वसन्तं न अवदत् तस्मिन् समये सा रङ्गमञ्चं गतवती भयेन अचेतना अभवत्। अहं बहुजनानाम् अभिमुखं गातुं न शक्नोमि । अपि च, अहं पितरौ अभिमुखमपि न गातुं शक्नोमि। त्वं माम् परित: गायसि! चम्पे! तव मनागभ्यासेन प्रयोजनम्। “मया इदं करणीयम्?” “आम्! आम्! आम्।” “यदि मही स्पर्श: च मां दृष्ट्वा हसत:?” यदि तौ एवं कुरुत:,तौ मूर्खौ वाक्यहीनौ च भावय ।
जनानाम् अभिमुखं सङ्गीतचिन्तनं चित्रपतङ्गै जठरम् पूर्णम् इति भाति । चम्पा अमुष्मिन् समये उद्दीप्ता सन्त्रास्ता च भवति। किन्तु सा भूय: गाने स्निह्यति। सा सकृत् प्रयत्नाय चिन्तयति। चम्पा दीर्घसमयं यावत् दृढम् अभ्यासं करोति। सा शय्यायां कोमलगुञ्जनेन साकं तिष्ठति। सा गायति, यदा संख्यावृद्धिकर्म संख्याविभाजनकर्म च करोति। सा तस्या: कण्ठध्वनिं उच्चै: नीचै: नीचै: उच्चै: वा करोति यदा सा तस्या: अजान् पशुचारणाय नयति। सा मुखेन गायति, सा नासिकया गायति, सा ओष्ठाधराभ्यां गायति। चम्पाया: तस्मिन् महति दिने गृहस्य प्रत्येकम् जना: उद्दीप्ता: सन्ति। ते ताम् उपदिशन्ति। “गीतात् पूर्वं दीर्घश्वासं नय।” “श्रोतृभ्य: तव प्रशस्तं हसनं प्रदर्शय। स्वीया स्वीया भव।” “द्वारं प्रति भग्नां स्थालिकां निक्षिप्य द्वादशद्राक्षां च खाद। सौभाग्याय।” अस्मिन् दिने तस्या: अनुष्ठानस्य प्राक् , चम्पा एकं विशिष्टानुशीलनं करोति। इदमनुशीलनं साफल्यं अभिव्यनक्ति। अन्ततः वार्षिकानुष्ठानदिनम् आगतम्। चम्पा स्वेदकवस्त्रं परिधत्ते। यद्वस्त्रं तस्या: पितामहेन रचितम्। यदा तस्या: गेयस्य समय: आगत:, तदा तस्या जिह्वा घर्षकवत् अनुभूयते।
रङ्गमञ्च: अतीव महान्। आलोक: अतीव दीप्त:। तत्र अनेके श्रोतार: जना: सन्ति। चम्पाया: कण्ठ: आविष्ट: भवति, तस्या भुजौ शीतलौ भवत:।
सा श्रोतॄणाम् अभिमुखं हसितुं विस्मरति। यदा सा गातुम् आरभते फिस्फिस्-ध्वनि: बहि: आगच्छति। मन्यते – कश्चित् तस्या: कण्ठध्वनिं ग्रसते। चम्पा गभीरं दीर्घश्वासं नयति, पुनश्च चेष्टते। अनन्तरं एक: चिँचिँशब्द: बहि: आयाति। श्रोतॄणां दीर्घकृच्छ्रोच्छ्वास:। चम्पाया: हृदयम् अवरुद्धं भवति। धडास्-शब्देन पतनम्। तस्या: मस्तकं भ्रमितुम् आरभते। तस्मिन् समये सा तस्या: अभिमुखं सहसा भासमानं वसन्तं पश्यति। तं दृष्ट्वा सा उत्फुल्ला भवति। सा पुन: चेष्टते।
प्रथमे तस्या: गीतं कोमलं भवति, यद्यपि तस्या: कण्ठस्वर: कम्पमान:, तथापि सुमधुरम्। क्रमेण तस्या: सुमधुरं स्निग्धं संगीतं वहति। रङ्गमञ्च: महान्, अयं न कोऽपि विषय:। अथवा आलोक: अधिक: दीप्त:, अयम् अपि न विषय:। अथवा श्रोतृषु अनेके जना: सन्ति, अयम् अपि न विषय:। चम्पा तस्या: कण्ठस्वरं भीषणं मुक्तं करोति।
यदा सा एवं करोति, तदा सा विश्वस्य अद्भुतानुभूत्या पूर्णा भवति।











