फ़ेसबुकिया मैत्री (व्यंग्य)

मार्कण्डेय शार्देय पटना बिहारस्थ

मोबाइल यन्त्रस्य आविष्कारेण वाचा सम्पर्कः सहजो जातः। देश-विदेश-वासिभिः सह वार्ता दूरादपि सान्निध्य-सुखं ददाति। कथ्यते- दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः। यो यस्य हृदये नास्ति समीपस्थोऽपि स दूरतः।। अनेन प्राप्ते मोबाइले जनाः प्रलापे प्रलिप्ताः भवन्ति। प्रेमतपस्विनां कृते तु इदं महत्तमं तपोबल-साधनं वरदानं वा।
स्मार्ट फोनस्य, नेटस्य, वाइफाइ इत्यस्य च आविष्कारेण स्वर्गसुखं हि उपस्थितम्। कल्पवृक्षस्य कामधेनोश्च कल्पना कपोल-कल्पना इव प्रतिभाति। वचने का दरिद्रता वा। अनेके ऐपाः सन्ति। ते स्वयम् अपि आगत्य कथयन्ति – किं किं न साधयति कल्पलतेव ऐपाः ! एकतः एकं श्लीलम् अश्लीलं दृश्यम्, एकतः एकं ज्ञान-साधनम्, एकतः एकं सौविध्यं च अस्य माध्यमेन उपलभ्यते। यस्य पार्श्वे एतत् नास्ति, तस्य जन्म निरर्थकमिति ।
आशीर्वादे एकः श्लोकः दृश्यते श्रूयते च। प्रायः पुरोहिताः यजमानाय आशीर्दाने वदन्ति- मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः। शत्रूणां बुद्धिनाशोऽस्तु मित्राणाम् उदयः तव।। अस्मिन् सर्वोत्तमम् आशीः ‘मित्राणाम् उदयः’ इति। कथम् इदमेव ? तु; मित्रोदयेन आत्मनः प्रसारः जायते।
विद्याभिजन-मित्राणि-वृद्धि-सत्त्व-धनानि च।
तपः सहाय वीर्याणि दैवं च दशमं बलम् ।।

एषु दशसु बलकारकाणि मित्राणि अपि स्थानापन्नानि।
पुनश्च; हितोपदेशेऽपि मूल्यवति सुभाषिते आगतम्-

यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः।
यस्य मित्रेण संलापः ततः नास्तीह पुण्यवान्।।
यानि कानि च मित्राणि कर्तव्यानि शतानि च।
पश्य मूषिक-मित्रेण कपोताः मुक्तबन्धनाः।।

स्पष्टं यत् अधिकस्य अधिकं फलमिति भावनया अधिकानि मित्राणि साध्यानि। तैः सह सदा सम्भाषे वार्तालापे च संलग्ना भवेम। अहो ! फेसबुकं किम् आयातम् अस्माकं कृते तु मित्रता-निर्माणस्य कार्यशाला एव उद्घटिता !
प्राचीनायां प्रथायां मित्रार्जनं कठिनम् आसीत्, किन्तु फेसबुक-माध्यमेन मैत्रीं प्रार्थ्य अज्ञातं दूरस्थम् अपि मित्रवर्धने समर्थाः वयम्। शतशः सहस्रशः मित्राणि अल्पप्रयासेन प्राप्तुं समर्थाः वयम्। सर्वत्र सहमतिः न सम्भवा। अस्माकं प्रतिकूलः हितोपदेशो ऽयम्-
अज्ञात-कुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृद्धो जरद्ङ्गवः।।

जरद्गवः हतः, तु हतः; वयं किं करवाम ! सः वृद्धः तिर्यग्योनिं प्राप्तः पक्षी आसीत्। वयं युवानः विवेकिप्राणिषु मानवोऽपि। वयं तु फेसबुकीय-परिचयेन सम्बद्धाः प्रिय-प्रियासम्मितया वाचा एतादृशाः प्रगाढत्वम् आप्नुमः यत् परस्परं विवाहम् अपि रचयामः। वैवाहिक सम्बद्धाभावे ऽपि सर्वस्व-समर्पणम् इव सर्वं निवेदयामः। मन्ये; धूर्ताः धूर्तत्वात् हानिं कुर्वन्ति, किन्तु यौवनबले चूर्णानां कृते प्राणदायकः हितोपदेशीयः सन्देशो ऽयम् अस्माकं पक्षधरः-
शंकाभिः सर्वमाक्रान्तम् अन्नं पानं च भूतले।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ।।

शंकाभिः सर्वमाक्रान्तम् अन्नं पानं च भूतले। प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ।।
कः कदा किं करोति इति जानीम एव, परन्तु मित्रस्य आगते जन्मदिवसे शुभकामनाः अवश्यं प्रदर्शनीयाः। कृत्रिमं पुष्पं मिष्ठान्नं चुम्बनम् अपि स्यात् तु का कथा! मित्रं तु मित्रम्, तस्य पारिवारिकानां सदस्यानां च कृते अस्माकं कर्तव्यं यत् शुभैषणां प्रेषयाम। कस्यचित् प्रपितामहस्य श्यालस्य पौत्रस्य श्वसुरस्य दुहितुः पितृष्वसुः पौत्र्याः जन्मदिवसः आगतः, तु मित्रस्य तीव्रेच्छा यत् आत्मनः पटले विज्ञापयेत् एवं सर्वाणि मित्राणि यथायोग्यम् आशीर्वादैः शुभकामनाभिः वा स्नपयेयुः। कस्यचित् पुंलिङ्गस्य स्त्रीलिङ्गस्य क्लीवलिङ्गस्य वा दूरतमस्थानाम् अपि सबद्धानां दुर्घटना भवेत्, तु फेसबुके राष्ट्रीय- शोकसूचना इव आगमिष्यति एव, तदानीम् अस्माकं सर्वोपरि यज्ञविहितं कर्म इदं यत् तत्र गच्छाम, अथवा ‘अभावे शालिचूर्ण वा’ इति न्यायेन फेसबुके एव शेयरं कृत्वा शोकं प्रदर्शयाम।
किमधिकम्, फेसबुकीयया मैत्र्या वयं सर्व साथयितुं समर्था यत् लोकत्रये दुर्लभतममिति।