एकं गुरुकुलम् अस्ति | तत् गुरुकुलं नर्मदानद्याः तीरे अस्ति | गुरुः आश्रमे वसति । तत्र पञ्च छात्राः अपि वसन्ति | गुरुवर्यस्य नाम आदिनाथः | लक्ष्मीः आदिनाथस्य पत्नी | गुरुकुलस्य प्राङ्गणे एकः उन्नतः वटवृक्षः अस्ति | वटवृक्षस्य अधः गुरुः उपविशति |
सः प्रतिदिनं वेदमन्त्रम् उच्चैः वदति | शिष्याः श्रद्धया वेदमन्त्रम् अनुवदन्ति | गुरुः आदिनाथः वात्सल्येण पाठयति | गुरुमाता लक्ष्मीः अम्बा इव शिष्याणां पालनं करोति | सर्वे आनन्देन आश्रमे वसन्ति | किञ्चित् कालानन्तरं गुरुः आदिनाथः चिन्तयति “अहं तीर्थाटनार्थं गच्छामि । अनेकस्य देवालयस्य सन्दर्शनं करोमि | देवदर्शनं करोमि देवस्य अनुग्रहं प्राप्नोमि च । मम पत्न्या लक्ष्म्या सह गच्छामि” इति | गुरुः आदिनाथः आश्रमस्य रक्षणार्थ जयेष्ठं शिष्यद्वयम् आह्वयति | प्रथमशिष्यस्य नाम रमाकान्तः | द्वितीयशिष्यस्य नाम मुकुन्दः | गुरुः वदति “अहं तीर्थाटनार्थ गच्छामि | आश्रमस्य रक्षणं करोतु | शिष्यान् सम्यक् परिपालयतु च | मम समीपे किञ्चित् धान्यम् अस्ति | अहं तत् धान्यं ददामि | भवन्तौ तस्य धान्यस्य सदुपयोगं कुरुतान ” इति |
गमनसमये सः तयोः हस्ते मुष्ठिपरिमितं धान्यं स्थापयति | रमाकान्तः वदति – “आम् गुरुदेव । निश्चयेन भवतः वचनम् अनुसरामि” इति | मुकुन्दः वदति – “अस्तु गुरुदेव । आश्रमस्य रक्षणं पालनं च करोमि” इति |
रमाकान्तः चिन्तयति ” अहो! एतस्य धान्यस्य मूल्यं बहु अधिकम् अस्ति | अतः अहं पूजाप्रकोष्ठे धान्यं पेटिकायां स्थापयामि | प्रतिदिनं नमामि, नैवेद्यं करोमि च । यदा गुरुः प्रत्यागच्छति तदा गुरुः मम श्रद्धा-भावं पश्यति तदा सः अतिप्रसन्नः भविष्यति ” इति | गुरुकुलस्य समीपे एकं क्षेत्रम् अस्ति । मुकुन्दः तत्र गच्छति । धान्यं हस्ते स्वीकरोति | सः भूतले धान्यानि प्रसारयति | मुकुन्दः अन्यं मित्रं वदति “भवान् मम साहाय्यं करोति वा ? जलेन सिञ्चति वा?” इति | मित्रः वदति ” आम् | निश्चयेन साहाय्यं करोमि” इति |
अन्ये शिष्याः अपि तस्य साहाय्यं कुर्वन्ति । ते सर्वे मिलित्वा कार्य कुर्वन्ति
षण्मासानन्तरं गुरु आदिनाथः गुरुकुलं प्रत्यागच्छति | शिष्याः अतीव सन्तुष्टाः सन्ति | रमाकान्तः अतीव गर्वेण वदति ” हे गुरो ! पश्यतु, यत् धान्यं भवान् पूर्वं ददाति स्म तत् अहम् आदरेण श्रद्धया च पेटिकायां स्थापयति स्म ” इति | गुरुः आदिनाथः पेटिकाम् उद्घाटयति | पेटिकातः दुर्गन्धं सर्वत्र प्रसरति | धान्यतः किटानि च आगच्छन्ति |
गुरुः वदति ” हे रमाकान्त ! इदानीं धान्यानि मलिनाननि सन्ति | भवान् धान्यस्य दुरुपयोगं करोति | एतस्य धान्यस्य उपयोगः नास्ति ” इति |
रमाकान्तः लज्जाम् अनुभवति | सः शिरसम् अधः स्थापयति | गुरुः मुकुन्दं पृच्छति ” धान्यं कुत्र अस्ति? दर्शयतु” इति । तदा मुकुन्दं गुरु क्षेत्रं नयति । तत्र गुरुः सस्यानि पश्यति | गुरुः चकितः भवति । गुरुः मुकुन्दं वदति ” हे मुकुद ! कियत् शोभनं क्षेत्रम् | एतानि सस्यानि किञ्चित् कालानन्तरं वृक्षाः भवन्ति | तदा वयं फलानि प्राप्नुमः | वयं वृक्षस्य अधः उपविशामः छायां प्राप्नुमः च | स्वच्छं वायुं प्राप्नुमः | वातावरणं स्वच्छं च भवति | भवान् धान्यस्य सदुपयोगं करोति | वृक्षस्य इव परोपकारं करोति | अत्युत्तमम् ” इति | तदा रमाकान्तः वदति “अहं वस्तूनां सदुपयोगं करोमि | अहं हितकार्याणि करोमि | परोपकारः पुण्याय” इति | रमाकान्तः इदानीं गुणपाठं प्राप्नोति । सः गुरुं नमति |











