दशमम् अन्तराष्ट्रिय-योगदिवसः सम्पूर्ण विश्वे एकविंशति दिनाङ्के आचरितः। प्रमुखकार्यक्रमः जम्मूकश्मीरस्य श्रीनगरस्य शेर-कश्मीर- अन्ताराष्ट्रिय सम्मेलनकेन्द्रे आयोजनम् कृतं । प्रधानमन्त्री नरेन्द्रमोदी श्रीनगरतः अस्य कार्यक्रमस्य नेतृत्वं कृतवान् । आहत्य सप्तसहस्रं जनाः प्रधानमन्त्रिणा सह डलजलाशय तटे एकत्रिताः अभवन् । प्रधानमन्त्रिणाः नेतृत्वयुते एतस्मिन् कार्यक्रमे जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हाः केन्द्रीयमन्त्री प्रतापराव गणपतरावजाधवः अन्येच गणमान्याः जनाः उपस्थिताः आसन् । अस्य वर्षस्य योगदिवसस्य शीर्षको वर्तते-स्वस्मै समाजाय च योगः इति अस्य कार्यक्रमस्योद्देश्यं योगाभ्यासद्वारा वैश्विक-स्वास्थ्य-कल्याणं च संवर्धयितुं सहस्राधिकं प्रतिभागिनां एकत्रीकरणं विद्यतै। कार्यक्रमावधौ प्रधानमन्त्री जनसभागमपि सम्बोधयत्। अपिच सामान्ययोगमपि सम्बोधयत् । अपिच सामान्ययोगसत्रे भागं कृतं यस्मिन् शारीरिक-मानसिक- आध्यात्मिकविकासस्य प्रतिपोषणे योगमहत्वं उदघाटितः भवतु। प्रधानमंत्री नरेन्द्र मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां आसन् । श्रीमोदी पञ्चशताधिकैकसहस्रकोटि-रूप्यकाणां चतुरशीतिः प्रमुखासां विकासपरियोजनानां शिलान्यास उद्घाटनं कृतवान्।
‘भारते योगपर्यटनस्य उदयः’ इति पीएम मोदी वदति
श्रीनगरे शेर-इ-कश्मीर-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे (SKICC) जनान् सम्बोधयन् पीएम मोदी इत्यनेन उक्तं यत्, “विगतदशवर्षेषु योगस्य विस्तारेण योगसम्बद्धा धारणा परिवर्तिता अस्ति। अद्य विश्वे नूतना योग-अर्थव्यवस्था अग्रे गच्छन्ती दृश्यते। ऋषिकेश-काशीतः केरलपर्यन्तं भारते योगपर्यटनस्य नूतना प्रवृत्तिः उद्भवति इति वयं द्रष्टुं शक्नुमः। सः अपि अवदत् यत्, “प्रामाणिकयोगशिक्षणार्थं विश्वस्य सर्वेभ्यः जनाः भारतम् आगच्छन्ति । तदनुसारं जनानां विशालप्रवाहात् आतिथ्य-पर्यटन-परिधान-आदि-सम्बद्धाः क्षेत्राः प्रफुल्लिताः सन्ति । एतेन युवानां कृते रोजगारस्य अवसरानां नूतनाः मार्गाः सृज्यन्ते” इति । राष्ट्रपतिः द्रौपदी मुर्मूः अपि अवदत् यत्, “योगः शारीरिक-मानसिक-आध्यात्मिक-कल्याणस्य एकः उपायः अस्ति। अस्माकं दैनन्दिनजीवनस्य अभिन्न-अङ्गत्वेन योगं स्वीकुर्वन्तु इति संकल्पं कुर्मः।”











