नालन्दा-विश्वविद्यालयस्य नवनिर्मित-परिसरस्य उद्घाटनम्

प्रधानमंत्री नरेन्द्र-मोदी एकोनविन्शति दिनाङ्के बिहारस्य राजगीर-स्थले नालन्दा-विश्वविद्यालयस्य नवनिर्मित-परिसरस्य उद्घाटनम् अकरोत्। अत्रावसरे प्रधानमन्त्री अवोचत् यत् ज्ञानं सप्त-चत्वारिंशदुत्तर-द्विसहस्र-वर्ष यावत् भारतं विकसित राष्ट्रं कर्तुं महत्त्वपूर्णां भूमिकां निभालयिष्यति। नालन्दा विश्वविद्यालय-परिसरस्य उद्घाटनानन्तरं सुषमा स्वराज-सभागारे छात्रान् सङ्काय-सदस्यान् च सम्बोधयन् प्रधानमन्त्री अवोचत् यत् भारतं निज-शिक्षां ज्ञानप्रणालीं च सुदृढ़ां विधाय महाशक्तेः स्थानं प्राप्तुं शक्नोति । अमुना उक्तं यत् नालन्दा विश्वविद्यालयः जगति अस्माकम् अस्मितायाः परम्परणां च बृहत्तमम् उदाहरणं वर्तते। नालन्दा-विश्वविद्यालयस्य नूतन-स्वरूपं उदीयमान-भारतस्य क्षमतायाः शक्तेश्च प्रतीकं विद्यते। श्रीमोदिना उक्तं यत् तदीयं प्रशासनं भारताय शिक्षा क्षेत्रे बृहत्तम-ज्ञानकेन्द्र-रुपेण स्थापयितुं कार्यम् आचरति। अत्रावसरे विदेशमन्त्री एस.जयशङ्करः अवदत् यत् शिक्षा प्रशिक्षणं क्षमता-निर्माणं च अन्ताराष्ट्रिय-दृष्टिकोणं समेधितुं प्रभावपूर्णोपायाः विद्यन्ते। अस्मिन् अवसरे बिहारस्य मुख्यमन्त्री नीतिश-कुमारः उपराज्यपालः राजेन्द्र-आर्लेकरः उपमुख्यमन्त्रिणी सम्राट-चौधरी विजय-सिन्हा अन्ये प्रतिनिधयः सप्तदश राष्ट्राणां राजदूताः च उपस्थिताः आसन्।
अवधेयम् यत् द्वादश शताब्द्याः अन्ते आक्रमणकारी बख्तियार् खिलजी मठं ध्वस्तं कृत्वा भिक्षुणां नरसंहारं कृत्वा नालन्दायाः अमूल्यं पुस्तकालयं दग्धवान् । बख्तियार् खिलजी इत्यस्य कार्याणां पृष्ठतः एकं कारकं नालंदाविश्वविद्यालयस्य पुस्तकालयस्य अन्तः कुरानस्य अन्वेषणम् आसीत्, यस्य स्थानं सः न ज्ञातुं शक्नोति इति कथ्यते ।