त्रयः नूतन-आपराधिक-विधयः

त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य त्रयः नूतन-आपराधिक-विधयः भारतीय-न्याय-संहिता, भारतीय-नागरिक सुरक्षा-संहिता, भारतीयनागरिक-सुरक्षाधिनियमश्च अस्य मासे आरभ्य प्रवर्तन्ते। केन्द्रीयगृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् त्रयोऽपि आपराधिकविधयः राष्ट्र सर्वातिनूतनतमां आपराधिकन्यायप्रणालीं समारप्स्यन्ति। तेनोक्तं यत् आपराधिकन्यायप्रणाली सम्प्रति पूर्णतया स्वदेशीया वर्तते, स्वातन्त्र्यानन्तरञ्च भारतीयलोकाचारे अन्तर्निहिता वर्तते। विधित्रयस्य विषये भाषमाणः गृहमन्त्री नवदिल्ल्यां वार्ताहरान् अवोचत् यत् नूतनविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् निश्चयिस्यन्ति। गृहमन्त्रिणा प्रोक्तं यत् प्रशासनेन नूतन प्रावधानैस्सह राजद्रोहविधिः समापितोऽस्ति। महिलाः शिशवश्च प्राथमिकतायां सन्ति, एतदर्थं पञ्चत्रिंशद्-उपभागैस्सह त्रयोदशप्रावधानयुतः एकः विशिष्टाध्यायः संयोजितोऽस्ति। श्रीशाहेनोक्तं यत् सामूहिक-दुराचाराय जघन्यापराधत्वात् विंशतिवर्षाणां कारावासः उत वा आजीवनकारावासस्य दण्डः सुनिर्धारितोऽस्ति, अवयस्कैस्सह कृतदुराचाराय मृत्युदण्डः सुनिश्चितोऽस्ति । श्रीशाहेनोक्तं यत् पीडितायाः वक्तव्यं तस्याः एव गृहे स्वजनैस्सह संस्थाप्यैव अधिकारिभिः गृहीष्यते। विधिषु आन्तर्जालिकमाध्यमैरपि प्राथमिक्याङ्कनस्य व्यवस्था वर्तते। श्रीशाहेन विधिविषयेषु दुष्प्रचाराय विपक्षिणोऽपि गर्हिताः। तेनोक्तं यत् विषयेऽस्मिन् नवहोराधिकं लोकसभायां षड्‌होराधिकञ्च राज्यसभायां चर्चा अस्ति सञ्जाता।