असमराज्ये जलाप्लावेन सामान्यजनजीवनं अस्त-व्यस्तः समजायत । त्रिंशज्जन-पदेषु चतुर्विशतिलक्षाधिकाः जनाः जलाप्लावेन संत्रस्ताः सन्ति। यद्यपि कस्यचिदपि मुत्युसूचना नैवोपलब्धा। अनवरततया वृष्टि-कारणात् गुवाहाटी नगरे केषुचित् जलावरोधः संजातः अस्मात् कारणात् वाहनानां गमनागमनमपि प्रभावितमस्ति। भारतीय-ऋतु-विज्ञान विभागेन असमस्य प्रोन्नतस्थानेषु अतिवृष्टेः भविष्यवाणी विहिता। काजीरंगा राष्ट्रीयोद्यान- प्राधिकरणेन एतावता शतं वन्यप्राणिनः संरक्षिताः, जलाप्लावेन नवतिः जन्तवः मृतास्सन्ति।गतमासस्य ऊनत्रिंशत्-दिनाङ्कात् आरभ्य अविरामवृष्ट्या भृशं प्रभावितेषु असमस्य धेमाजीमण्डलस्य सिवागुरी-ग्रामेषु, अरुणाचलप्रदेशस्य पूर्व-सियाङ्गमण्डलस्य मेर-ग्रामेषु च व्यापकरूपेण जलौघ-जनोद्धार-कार्यक्रमेषु भारतीयसेना सक्रियरूपेण संलग्ग्रा अस्ति। भारतीयसैन्यबलेन राज्य-आपदा-मोचन-बलेन च सम्भूय जलौघ-प्रभावितक्षेत्रेषु जलौघपीडितानां जनानां समुद्धाराय तीव्राभियानं प्रचालितमस्ति। अस्मिन् अभियाने सिवागुरी, नामसिङ्गघाट्, पगलाम, ओरियानघाट् इत्येतेषु क्षेत्रेषु अष्टचत्वारिंशत् नागरिकाः ससुरक्ष निष्कासिताः । येषु सप्तदश बालकाः, विंशति-महिलाः, एकादश वृद्धाः नागरिकाः च समाविशन्ति। ततः परं इमे समुद्धारिताः जनाः अस्थायी आश्रयस्थानेषु संस्थापिताः। जलप्रलयग्रस्तानाम् एतेषां सर्वेषां कृते भोजनं, जलं, चिकित्सासाहाय्यं च सैन्यबलेन प्रदत्तम् अस्ति।
मणिपुरे अत्यधिफवृष्ट्या आकस्मिकजलाप्लवेन च तत्रस्थेषु मण्डलेषु विनाशः उत्पन्नःअस्ति अपि च राज्यसर्वकारेण प्रभावितानाम् जनानां कृते उद्धारकार्याणि आरब्धानि। राज्ये प्रचण्डवृष्टिः भविष्यति इति ऋतु विभागेन पूर्वानुमानितः अस्ति। मणिपुरे गतसप्ताहात् प्रचण्डवृष्टिः जायमाना बर्तते, अधुना नद्यः संकटस्तरात् उपरि प्रवहन्ति। इम्फालस्य ऋतुविभागेन उक्तं विष्णुपुरमण्डले मिलीलीटरमितवृष्ट्या सर्वाधिकवृष्टियुक्तम् मण्डलम् अभवत्। इम्फाल- उपत्यकायां प्रवहन्ति नद्यः इदानीं इम्फाल्-नगरस्य निस्रक्षेत्रं प्रभावयन्ति। राज्यसर्वकारेण नद्य सर्वासां प्रशासनिकसंस्थानां सार्वजनिकावकाशस्य घोषणा कृता, विद्यालयाः पिहिताः भविष्यन्ति। उद्धार-पुनर्वास-प्रयासान् कर्तुं, प्रचण्डवृष्ट्या, जलप्रलयेन, भूस्खलनेन च प्रभावितानां जनानां आवश्यकतां सम्पूरयितुं अहर्निशम् – नियन्त्रणकक्षं स्थापितं वर्तते। नदीघट्टानां कृते जीर्णोद्धारकार्य सम्प्रति प्रचलति।











