ब्रिटेन-इरान्- निर्वाचनम्

ब्रिटेनदेशस्य संसदीयनिर्वाचने लेबरपार्टीतिदलस्य विजयः अभवत् । दलस्यास्य नेता कीर-स्टार्मरः निवर्तमानप्रधानमन्त्रिणः ऋषिसुनकस्य कंजर्वेटिवपार्टीति दलम् पराभूय न्यूतनः प्रधानमन्त्री अभवत् ।
प्रधानमन्त्री नरेन्द्रमोदी ब्रिटेन-संसदीय निर्वाचने विजेत्रे कीरस्टार्मर इत्यस्मै वर्धापनानि अयच्छन् उक्तवान् च यत् सकारात्मकगत्या अग्रेवर्धनाय, भारतब्रिटेनयोर्मध्ये सहयोगपुरस्सरं कार्याचरणाय च वयं सन्नद्धाः स्मः।
प्रधानमन्त्री नरेन्द्रमोदी ब्रिटेनस्य प्रधानमन्त्रीरूपेण निर्वाचितेन कीर स्टारमर इत्यनेन सह वार्तालापं कृत्वा शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिकसंचारपटले श्रीमोदी अवदत् यत्, उभयोः देशयोः जनानां प्रगतेः समृद्धेः वैश्विक हिताय च सुदृढ- भारत-ब्रिटेन-आर्थिक-सम्बन्धयोः गभीरीकरणाय उभौ पक्षौ प्रतिबद्धौ स्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना इस्लामिकगणराज्यस्य इरान्-देशस्य राष्ट्रपतित्वेन निर्वाचितस्य मसूद-पेजेश्कियां-इत्यस्य अभिनन्दनं कृतम्। सामाजिकसंचारपटले श्रीमोदी अवदत् यत् भारत इरान्-देशयोः जनानां क्षेत्रस्य च हिताय मधुरं दीर्घकालिकं च द्विपक्षीयं सम्बन्धं इतोप्यधिकं सुदृढं कर्तुं पेजेश्कियां-महोदयेन सह निकटतया कार्य कर्तुं उत्सुकः अस्ति।