दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे सुसम्पन्नं दशदिवसीयसंस्कृतसम्भाषणशिविरम्

प्राथमिककक्षातः संस्कृतस्य पठनं पाठनं च भवेत् – सीतादेवी (मुख्यातिथिः)
भारतीयसंस्कृतिः संस्कृताश्रिता – डॉ.रामसंयोगरायः (अध्यक्षः)
भारतीयभावैक्याय संस्कृतस्यास्ति महती भूमिका – डॉ.छबिलालन्यौपानेः (संयोजकः)
देवभाषा जनभाषा च संस्कृतम् – डॉ.वीरसनातनपूर्णेन्दुरायः (प्रशिक्षणप्रमुखः)

वार्ताहरः : डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन २०२४तमवर्षस्य जुलाईमासस्य द्वितीयदिनाङ्कादारभ्यैकादशदिनाङ्कं यावत् दशदिवसीयं संस्कृतसम्भाषणशिविरं समनुष्ठितम्। संस्कृतसम्भाषणशिविरस्य अध्यक्षः महाविद्यालयस्य प्रधानाचार्यः डॉ.रामसंयोगरायः, संयोजकः डॉ.छबिलालन्यौपानेः, प्रशिक्षणप्रमुखश्च डॉ.वीरसनातनपूर्णेन्दुरायः आसीत्। शिविरकार्यक्रमस्य समापनसत्रे मुख्यातिथिरूपेण दरभङ्गाजनपदपरिषदध्यक्षा माननीया श्रीमती सीतादेवी, विशिष्टातिथिरूपेण च दरभङ्गाजनपदपरिषदः सदस्यः श्रीमान् अमरनाथशर्मा उपस्थितौ आस्ताम्। अनयोः अतिथ्योः स्वागतं मिथिलापरम्परानुसारेण उष्णीष-उत्तीरय-माल्यापर्णादिना विहितम्। संस्कृतसम्भाषणशिविरे डॉ.वीरसनातनपूर्णेन्दुरायनिर्देशने महाविद्यालयस्यान्यशिक्षकाः डॉ.विभूतिनाथझाः, डॉ.रंजीतकुमारठाकुरः, डॉ.सरस्वतीकुमारी, डॉ.रेणुझाश्च संस्कृतसम्भाषणं पाठितवन्तः। शिविरस्य सुव्यवस्थापनदायित्वं महाविद्यालयस्य शिक्षकैः डॉ.सरिताकुमारी-डॉ.नियतिकुमारी-डॉ.नीतेशकुमारमिश्रैः कार्यालयीयकार्यञ्च श्रीमुकुन्दकुमारेण निर्व्यूढम्। संस्कृतसम्भाषणशिविरेऽस्मिन् प्रशिक्षणार्थम् (९०)नवतिसंख्यकाः महाविद्यालयस्य छात्राः सामाजिकाः च प्रशिक्षार्थिनः आसन्, येषु श्रुतिप्रिया, कबीरदासः, अञ्जूः, नीतीशः, अभिनवः, मीनूः, आरती, छोटी, सृष्टिः, अञ्जलिः, प्रभुसहनी, सुरेशसहनी, बालकृष्णः, अनुः, पूजा, अरविन्दः, सुमितपासवानः, लक्ष्मीः, पुष्पाञ्जलिः, आदित्यः, राजकुमारझाः, वीणीपाणिः च इत्यादिभिः विद्यार्थिभिः संस्कृतसम्भाषणशिविरे प्रशिक्षणानुभवं सरलसंस्कृतभाषामाध्यमेन व्यक्तीकृतम्।देहरादूनं। “डिस्कवर उत्तराखण्ड 24 न्यूज”इत्यस्य राज्यस्तरे उत्तराखण्डगौरवरत्नसम्मानस्य कार्यक्रम: संस्कृतिविभागप्रेक्षागृहदेहरादूने प्रारभत् । यत्र सम्पूर्णराज्यस्य नवप्रतिभाशालिन: शिक्षका: सामाजिका:, राजनैतिका:, ग्रामप्रमुखा:, प्राध्यापका:, विविधक्षेत्राणां योग्यमेधाविनश्च विविधविषयेषु कौशलसम्पन्ना: छात्रा: समाहूता: आसन् । संस्कृतसेवाक्षेत्रे य: संस्कृतप्रचारप्रसारकार्यं च सामाजिकजनानां कृते संस्कृतसम्भाषणं लेखनं च कारयति स: राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारस्य संस्कृतशिक्षक: कुलदीपमैन्दोला उत्तराखण्डविधानसभाध्यक्षाद्वारा उत्तराखण्डगौरवरत्नसम्मानेन सम्मानितोभवत् । इत: पूर्वमपि श्रीमैन्दोला विश्वविद्यालयै: विद्यालयै: उत्तराखण्डसंस्कृताकादम्या च संस्कृतशिक्षा-उत्तराखण्डद्वारा च विभिन्नसंस्थाभि: सम्मानित: वर्तते ।
अवसरेस्मिन् श्रीमती-ऋतुभूषणखण्डूरीद्वारा कथितं यत् हिन्दीक्षेत्रे आंग्लक्षेत्रे च संस्कृतक्षेत्रे त्रिविधक्षेत्रे अयं पुरस्कार: प्रदीयते इति अस्माकम् उत्तराखण्डस्य गौरवं । सावदत् मञ्चं समागत्य प्रतिभाशालिन: संस्कृतेन वदन्ति तदस्माकं संस्कृति: संस्कार: सम्मानस्य वर्तते। तया शिक्षकाणां प्राचार्याणां प्राध्यापकानां, सामाजिकजनानां, ग्रामप्रमुखानां छात्राणां च विविधविषयेषु क्षेत्रेषु समुपलब्धीनां समागतानां कृते उत्तराखण्डगौरवरत्नसम्मानेन सम्मानं कृतं । “डिस्कवर_उत्तराखण्ड 24 न्यूज” इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तवर्य: इमं विशेषावसरं सृजितवान् । तेषां संकल्पेन परिश्रमेण उत्तराखण्डे नवोन्मेषशालिन: प्रतिभावान् जना: गौरवमयीकार्ये सतत् संलग्ना: सन्ति । वास्तविकरूपेण।
उत्तराखणडगौरवरत्नसम्मानस्य अयं प्रकल्प: तेषाम् उत्तराखण्डस्य प्रतिभाशालिनाम् बहुपूर्वसंकल्पितश्रमस्य परिणाम: सम्मानरूपेण विद्यते। श्रीपन्तवर्य: नवसृजने आधुनिके सत्यान्वेषक: विद्यते परिणामत: अधुना उत्तराखण्डगौरवरत्नसम्मानेन सम्मानं संजायते ।