कुरु सृष्टिं सनातनीम्

मत्स्य-पुराणस्य कथनम् इदं यत् यदा ब्रह्मा आत्मजायाः दर्शनात् कामान्धो जातः, तया सह प्रणयबद्धोऽभूत्, ततः परं स्वकुकृत्येन लज्जितो ऽपि अभवत्। एतस्य कारणं कामदेवं मत्वा तस्मै अक्रुध्यत्। कुध्यन् शपन् च विधाता तम् अवदत्-
प्रार्थयत्-
यस्मात् ममापि भवता मनः संक्षोभितं शरैः।

तस्मात् त्वदेहम् अचिरात् रुद्रो भस्मी करिष्यति।। (४.१२)
शापं श्रुत्वा मदनः अतिभीतः दुःखितश्च अभवत्।

सः सविनयंन मामकारणे शप्तुं त्वम् इहाहर्सि मानद।।

अहम् एवं विधः सृष्टः त्वयैव चतुरानन।

इन्द्रिय-क्षोभजनकः सर्वेषाम् एव देहिनाम् ।। (४.१३-१४)
सः पुनः अवदत्-
स्त्रीपुंसोः अविचारेण मया सर्वत्र सर्वदा।

क्षोभ्यः मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो।।

तस्मात् अनपराधोऽहं त्वया शप्तः तथा विभो।

कुरु प्रसादं भगवन् स्वशरीराप्तये पुनः।। (४.१५-१६)
तदा प्रसन्नः विधाता द्वापरे श्रीकृष्णस्य पुत्ररूपेण सदेहो भवितुम् आशिषं ददौ। सः कामः देवप्रेरणया योगरतं शिवं पार्वत्या सह विवाहार्थं यदा
शम्भुपूजने रता गिरिजा तदैव बाणप्रहारं कृतवान्। बाणविद्धः ईश्वरः किञ्तित् विक्षुब्धः अभवत्, परन्तु सद्यः संयमितो जातः। ततः परं इतस्ततः पश्यन् सः क्षिप्तं पञ्चशरम् अपश्यत्। तस्मै क्रोधं कृत्वा तृतीयं नेत्रम् उदघाट्यत्। उ‌द्घाटितेन तन्नयनेन कामः भस्मीभूतः। रतिविलापं श्रुत्वा दयानिधिः सः द्वापरे प्रद्युम्नरूपेण अनङ्ग साङ्गं प्राप्तुं वरं ददौ। सः शम्बरारिः एव श्रीकृष्णपुत्रः रतिपतिश्च आसीत्। पुनः उभयोः मेलनम् अभवत्।
इदमेव ब्रह्मणः शापस्य अनुग्रहस्य च फलम्।
कालिका-पुराणे ऽपि कामोत्पत्त्याः किञ्चित् पृथक् प्रसङ्गः आगतः। सः ब्रह्मणः मनसः उत्पन्नः, तस्मात् तस्य नाम मनोभवः। तस्य रूपं वर्णयन् कथितं यत् सः काञ्चनी-चूर्णवत् पीताभः, पीनोरस्कः, सुनासिकः, सुवृत्तोरु-कटीजङ्घः, नीलवेष्टित-केशरः, लग्नश्रूयुगलः, लोलश्च, चन्द्रपूर्ण-निभाननः, हृदयं रोमराजि-विराजितं कपाटवत् विस्तीर्णम्, शुभ्रमातङ्गवत् पीननिस्तल-बाहुकः, क्षीणमध्यः, आपादमुखं रक्तवर्णः, चारुदन्तः, प्रमत्त-गजबन्धनः, फुल्ल पद्मपत्राक्षः, केशरघ्राण-तर्पणः, कम्बुग्रीवः, मीनकेतुः, प्रांशुः, मकरवाहनः, पञ्चपुष्पायुधः, वेगी, पुष्पकोदण्ड-मण्डितः, भ्रामयन् नयनद्वयं कटाक्षपातेन कान्तः, सुगन्ध-मारुतभ्रान्तः, शृंगाररस-सेवितः च आसीत्। तेन कामेन कार्ये पृष्टे विधाता अकथयत्-
अनेन चारुरूपेण पुष्पबाणैः च पञ्चभिः।

मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।। (१.५४)
के के वश्याः तस्य? तुः सर्वे देवाः, गन्धर्वाः, किन्नराः, सर्पाः, असुराः, पिशाचाः, भूताः, विनायकाः, गुह्यकाः, सिद्धाः, मनुष्याः, पक्षिणः, पशवः, मृगाः, कीटाः, पतङ्गाः, जलजीवाश्च सकलाः तव वशे भविष्यन्ति। किं बहुना !
अहं वा वासुदेवो वा वा स्थाणुः वा पुरुषोत्तमः। भविष्यामः तव वशे किमन्यैः प्राणधारिभिः।

। प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदये सदा। सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ।। (१.५८-५६)
तव पुष्पबाणस्य लक्ष्यं सदा सर्वेषां मनः एव भविष्यति। त्वं प्राणिभ्यः नित्यं मदं मोदं च प्रदास्यसि।
वरं प्राप्य कर्तव्यं च अवगम्य सः आत्मनः पूर्वे जातां सन्ध्यां दृष्ट्वा ब्रह्मसहितान् तन्मानसान् पुत्रान् मरीचिम्, अत्रिम्, पुलहम्, आङ्गिरसम्, ऋतुम्, पुलस्त्यम्, वसिष्ठम्, नारदम्, प्रचेतसम्, भृगुञ्च वीक्ष्य सहसा शरसन्धानम् अकरोत्। तेन सर्वे कामव्यथिताः जाताः। सर्वे वासनया सन्ध्याम् अवलोकनरताः। सन्ध्यापि कामपीडिता ब्रह्माणं प्रजापतीन् च पश्यन्ती कटाक्ष-प्रहारैः स्वाशयं प्रकटने तत्परा। तदैव शङ्करः आगत्य इत्थं दुष्कृतं विलोक्य सर्वान् अभर्त्सयत । ततः परं सर्वे लज्जिताः अभवन्।
कामस्य पत्नी रतिः आसीत्। शिवस्य भर्त्सनया ब्रह्मणः शरीरात् धर्मारम्भे पितरः जाताः। एवमेव दक्षशरीरात् पतितात् स्वेदात् रतिः उत्पन्ना। सा कीदृशी आसीत्? तु; सा समस्तैः गुणैः सम्पन्ना, तन्वंगी, तनुमध्या,त्युरोभाक्लीभिः शुभा, मुद्धेगी, चारुयशना, तप्तकाञ्चन-सुप्रभा चासीत्। कामयोग्यां पुत्री पुत्रीयोग्यं कामं च विलोक्य दक्षः मन्मथम् उवाच-
मद्देहजेयं कन्वर्प मधूप-गुणसंयुता। एनों पृल्पीष्व भायर्षि भक्तः सदृशी गुणैः।।

एषा तव महातेजाः सर्वदा सहचारिणी। भविष्यति यथाकामं धर्मतो वशवर्तिनी।। (२.१६-२०)
सहधर्मिणी-रूपेण रतिं प्राप्य कन्दर्पः मोदभरान्वितः अभवत्। सः स्वश्वसुरं दक्ष प्रसन्नमनाः अकथयत्-
अनया सहचारिण्या सम्यक् सुन्दररूपया। समयों मोहितुं शम्भुं किमन्यैः जन्तुभिः विभो।। (२.४५)
आशयोऽयं यत् आवां पतिपत्न्यौ परस्पर सहयोगेन किमधिकं शङ्‌करम् अपि सम्मोहितुं शक्यौ।
अतः एतौ अद्यापि स्त्रीत्वे पुंस्त्वे च विशेषेण युवक-युवत्योः विहरन् सम्मोहनरती। न केवलं मानवे एव, अपितु सर्वेषु जीव-जन्तुषु स्थावर-जंगमेषु अपि अनयोः प्रविष्टिः। अनयोः प्रविष्ट्या एव सृष्टिवृद्धिः, फलानाम् उत्पत्तिः, सत्यानामपि उत्पादनं भवति। अतः रतिकामयोः व्याप्याम् एव संसारस्य व्यतिरिति।