भोजेश्वरमन्दिरं (भोजपुरमन्दिरम् इत्यपि प्रसिद्धम्) मध्यप्रदेशस्य भोपाल-महानगरात् अनुमानेन ३० किलोमीटर-दूरे स्थिते भोजपुर-नामके ग्रामे स्थितमस्ति। मन्दिरमिदं बेतवानद्याः तटे विन्ध्यपर्वतमालासु स्थितायां गिरिकायां विद्यते। मन्दिरस्य निर्माणं, तस्य शिवलिंगस्य स्थापना च धार-प्रदेशस्य परमारराज्ञा भोजेन (१०१० – १०५३ ई॰) कारिता। तस्य नाम्ना एव मन्दिरमिदं भोजपुरमन्दिरम् उत भोजेश्वरमन्दिरम् इति प्रसिद्धम् अभवत्। यद्यपि केषाञ्चन किंवदन्तीनाम् अनुसारं स्थलेऽस्मिन् मूलमन्दिरस्य स्थापना पाण्डवैः मन्यते। मन्दिरमिदं “उत्तरभारतस्य सोमनाथः” इत्यपि ख्यातिः। अत्र प्राप्तेभ्यः शिलालेखेभ्यः ११ शताब्द्याः हिन्दूमन्दिर-निर्माणस्य स्थापत्यकला प्रत्यक्षा भवति। ततोधिकं ज्ञायते यत्, स्तूपस्य प्रयोगः भारते इस्लाम-आगमनात् अपि पूर्वं भवति स्म। एतस्य अपूर्णमन्दिरस्य बृहत्कार्ययोजना समीपवर्तिषु पाषाणशिलासु उत्कीर्णिता अस्ति। एतस्य मानचित्रस्य आरेखानुसारं अत्र बृहतः मन्दिरस्य निर्माणयोजना आसीत्, मन्दिरं परितः स्थिते विशाले परिसरे अन्यानि मन्दिराणि अपि पूर्वायोजितानि आसन्। यदि मन्दिरस्य निर्माणकार्यं साफल्येन परिपूर्णम् अभविष्यत्, तर्हि एषः मन्दिरपरिसरः भारतस्य बृहत्तमेषु मन्दिरपरिसरेषु अन्यतमः अभविष्यत्।मन्दिरपरिसरं भारतीय-पुरातत्त्व-सर्वेक्षण-विभाग-द्वारा राष्ट्रिय-महत्त्वपूर्ण-स्मारकत्वेन चिह्नितम् अस्ति। तथा च अस्य पुनरुद्धारकार्यं कृत्वा अस्य पूर्ववत्स्थितिं कर्तुं प्रयासोऽपि कृतः अस्ति। मन्दिरस्य बहिः स्थापितानां पुरातत्त्वविभागस्य शिलालेखानुसारं मन्दिरस्य शिवलिंगं भारतस्य मन्दिरेषु सर्वोन्नतं विशालतम् अस्ति। मन्दिरस्यास्य प्रवेशद्वारम् अपि कस्यापि अन्यहिन्दूभवनस्य अपेक्षया बृहत्तमम् अस्ति। मन्दिरस्य समीपे एव मन्दिराय समर्पितः कश्चन पुरातत्त्वसङ्ग्रहालयः अपि निर्मितोऽस्ति। शिवरात्र्याः अवसरे राज्यसर्वकारेण अत्र प्रतिवर्षं भोजपुरोत्सव आयोज्यते।
पौराणिकं मतम्
पौराणिकमतानुसारं स्वमाता कुन्ती भगवतः शिवस्य पूजां कर्तुं शक्नुयात् इति उद्देशेन पाण्डवैः अस्य मन्दिरस्य निर्माणम् एकरात्र्यात्मिके समये एव पूर्णं कृतं सङ्कल्पः कृतः परन्तु मन्दिरं निश्चितावधौ पूर्णं नाभवत्। अतः मन्दिरमिदं सम्प्रति अपि अपूर्णमस्ति।
ऐतिहासिकं मतम्
ऐताहिसकमतानुसारं मान्यता अस्ति यत्, मन्दिरस्य निर्माणं कलायाः, स्थापत्यविद्यायाः च संरक्षकः मध्यभारतीयः परमारवंशीयः राजा भोजदेवः ११ शताब्द्याम् अकारयत्। परम्परायाः, मान्यतायाः अनुसारं मन्यते यत्, तेन एव भोजपुरमन्दिरस्य, विलुप्तजलबन्धस्य च निर्माणं कारितम् आसीत्। परन्तु मन्दिरस्य निर्माणं पूर्णतां नागच्छत्, अतः अत्र एकः शिलान्यासः उत उद्घाटन/निर्माण-अङ्कनशिला न प्राप्यते। तथापि अत्रस्थस्य ग्रामस्य नाम भोजपुरम् एव भोजराजेन सह सँल्लग्नम् अस्ति। मान्यतानुसारं मन्दिरमिदं एकरात्र्यात्मके समये एव निर्मितव्यम् आसीत्, किन्तु अस्य छदिभागस्य कार्यं प्रातःकालात् पूर्वं पूर्णं नागच्छत्। अतः मन्दिरमिदम् अपूर्णमेव विद्यते।
भोजराजेन निर्माणं कारितम् इत्यस्याः मान्यतायाः समर्थनं स्थलशिल्पेभ्यः प्राप्यते, येषां कार्बन-आयु-गणना ११ शताब्द्याः सुनिश्चिता भवति। भोजपुरस्य समीपवर्तिषु जैनमन्दिरेषु, येषु तेषामेव शिल्पिनां परिचयचिह्नानि सन्ति, येषाम् अस्मिन् शिवमन्दिरे सन्ति; तेषु १०३५ ई॰ वर्षस्य एव निर्माणतिथिः अङ्किता अस्ति। अनेकाः साहित्यिकरचनाः तु भोजरास्य उपस्थितेः बोधं कारयन्ति, परन्तु अस्य परिसरस्य ऐतिहासिकं साक्ष्यम् अपि १०३५ ई॰ वर्षे भोजराजस्य शासनस्य पुष्टिं करोति। भोजराजेन निर्मापितानि मोदस-ताम्र-पत्राणि (१०१०-११ ई॰), तस्य राजकविना दशबालेन रचिता चिन्तामणिसारणिका (१०५५ ई॰) इत्यादीनि तथ्यानि सर्वं तस्य उपस्थितिं पुष्टयन्ति। तस्य मन्दिरस्य निकटवर्त्तिषु क्षेत्रेषु कदाचित् त्रयः जलबन्धाः, एकः सरोवरश्च आसीत्। तादृशानां जलबन्धानां, सरोवरस्य च निर्माणं कश्चन शक्तिशाली राजा एव कारयितुं शक्नोति। तदेव उक्तानि तथ्यानि भोजराजेन निर्मापितम् इति पुष्टयन्ति।। पुरातत्त्वशास्त्री प्रो॰किरीट मनकोडी एतस्य मन्दिरस्य निर्माणकालं भोजराजस्य शासनस्य उत्तरार्धम् अर्थात् अनुमानेन ११ शताब्दीं मन्यते।
उदयपुर-प्रशस्तौपरवर्तिभिः परमारशासकैः लेखयितेषु शिलालेखेषु उल्लेखकाले मन्दिरैः परिपूर्मम् इत्यादयः वाक्यांशाः प्राप्यन्ते, तथा च शिवसम्बन्धितानि तथ्यानि समर्पितानि सन्ति। तेषु केदारेश्वरः, रामेश्वरं, सोमनाथः, कालभैरवः, रुद्रः इत्यादीनां वर्णनं प्राप्यते। लोकोक्तीनां, परम्पराणां च अनुसारं ज्ञायते यत्, भोजराजेन सरस्वती-मन्दिरस्य निर्माणम् अपि कारितम् आसीत्।(पश्यतु भोजशाला) कश्नः जैन-लेखकः मेरुतुङ्गः स्वकृत्यौ प्रबन्धचिन्तामणौ अलिखत्, भोजराजः स्वस्य राजधान्याम् एव (धार) १०४ मन्दिराणां निर्माणम् अकारयत्। यद्यपि अद्यत्वे केवलं भोजपुरमन्दिरम् एव अवशिष्टम् अस्ति, यस्य नाम भोजराजेन सह संलग्नं भवितुम् अर्हति।
प्रबन्धचिन्तामण्याः अनुसारं यदा भोजराजः श्रीमाल-प्रदेशस्य यात्रायाम् आसीत्, तदा सः महाकविमाघं भोजस्वामिन नामकस्य मन्दिरस्य विषये विर्णनम् अकरोत्। तस्य मन्दिरस्य निर्माणं तस्य समीपस्थायां योजनायाम् आसीत्। ततः राजा मालवा-प्रदेशं प्रत्यगच्छत् (मालवा-प्रदेशे एव भोजपुरं स्थितम् आसीत्।)। यद्यपि महाकविमाघः (७ शताब्दी) भोजराजस्य समकालीनः नासीत्, अतः एषा कथा कालभ्रमिता प्रतीयते
मन्दिरमिदं मूलतः कस्यचित् १८.५ मील लम्बमाने, ७.५ मील-विस्तृते च सरोवरस्य तटे निर्मितम् आसीत्।तस्य सरोवरस्य निर्माणयोजनायां भोजराजः पाषाणस्य, मृत्तिकानां च त्रीन् जलबन्धान् निर्मितवान्। जलबन्धेषु प्रथमः बेतवा-नद्यां निर्मितः आसीत्, यः एकभागात् जलावरोधस्य कार्यं करोति स्म। अन्येषु त्रिषु भागेषु गिरिकाः जलम् अवरोधयन्ति स्म। द्वितीयः अधुना मेण्डुआ-नाम्ना प्रसिद्धस्य ग्रामस्य निकटे द्वयोः गिरकयोः मध्यभागम् अवरोध्य जलनिकासं स्थगयति स्म। तृतीयश्च अधुना भोपाल-नगरे निर्मितः आसीत्, यः कस्याश्चित् वातावरणीयाः कालियासोत-नद्याः जलम् मार्गान्तरेण बेतवा-सरोवरं प्रति नयति स्म। एषः कृत्रिमः जलाशयः १५ शताब्दी-पर्यन्तं निर्मितः।।कस्याश्चित् गोण्ड-किंवदंत्याः अनुसारं मालवा-नरेशः होशंग शाह इत्येषः स्वसेनायै जलबन्धस्यास्य विध्वंसाय आदेशम् अयच्छत्। तस्मिन् विध्वंसे मासत्रयाः अभूवन्। मान्यतायाः अनुसारं होशंगशाह इत्यस्य पुत्रः जलस्य सरोवरे निमज्जितः। तस्य शवः अपि न प्राप्तः। अत्यधिकान्वेषणे कृते सत्यपि सः न प्राप्तः, अतः क्रोधाविष्टः राजा जलबन्धम् एव अनाशयत्। जलबन्धेन सह समीपस्थं मन्दिरम् अपि तोप-द्वारा पातयितुं प्रयासम् अकरोत्। अत एव मन्दिरस्य उपरि, पार्श्वे च अनेकानि मन्दिराङ्गानि भग्नानि सन्ति। जलबन्धस्यास्य जलरिक्ततयाः कारणेन समनन्तरमेव क्षेत्रेऽस्मिन् जलवायुपरिवर्तनम् अभवत्।
एतस्मिन् प्रसिद्धे स्थले वर्षे द्विवारं मेला-उत्सवस्य आयोजनं भवति। क्रमशः मकरसङ्क्रान्तौ, महाशिवरात्र्यां च। तस्मिन् काले धार्मिकायोजनेऽस्मिन् दूरस्थानेभ्यः प्रतिभागिनः समागच्छन्ति। एतस्य सरोवरस्य विस्तार भोपाल-नगरं यावत् अस्ति। मन्दिरनिर्माणे प्रयुक्ताः प्राषाणाः भोजपुरस्य पाषाणीयक्षेत्रेभ्यः एव स्वीकृताः सन्ति। मन्दिरस्य निकटात् दूरपर्यन्तं पाषाणानां, शिलानां च शिल्पकलायाः अवशेषाः सम्प्राप्यन्ते। लेखिका विद्या देहेजिया स्वपुस्तके अर्ली स्टोन टेम्पल्स ऑफ़ ओडिशा मध्ये उल्लिखति यत्, भोजपुरस्य शिवमन्दिरस्य निर्माणशैली भुवनेश्वरस्य लिङ्गराजमन्दिरसस्य, अन्यमन्दिराणां च निर्माणशैलीवत् अस्ति।
स्थलस्य उपयोगिता
अधुना मन्दिरमिदम् ऐतिहासिकस्मारकत्वेन भारतीय-पुरातात्त्विक-सर्वेक्षण-विभागस्य संरक्षणाधीनम् अस्ति। प्रदेशस्य राजधान्याः भोपाल-नगर्याः सन्निकटत्वात् (२८ कि.मी), अत्र अधिकाधिकाः पर्यटकाः, श्रद्धालवः च सम्प्राप्नुवन्ति। २०१५ वर्षे स्थलमिदं सर्वश्रेष्ठ-अनुरक्षित-एवं-दिव्यांग- सहायी-स्मारक-त्वेन राष्ट्रिय-पर्यटन-पुरस्कारम् (२०१३-१४) अलभत।
अपूर्णे सत्यपि स्मारकमिदं मन्दिररूपेण धार्मिकानुष्ठानेभ्यः प्रयुज्यते। महाशिवरात्र्यां अत्र “मेला” आयोज्यते। तदा सहस्रशः भक्ताः समागच्छन्ति। शिवरात्र्याः अवसरे मध्यप्रदेशसर्वकारेण अत्र भोजपुरोत्सवस्य आयोजनं क्रियते। । उत्सवे अनेके प्रसिद्धाः जनाः अपि भागं वहन्ति। २०१७ वर्षे कैलाश खेर, ऋचा शर्मा, गण्ण स्मिर्नोवा, सोनू निगम च अत्र कार्यक्रमे स्वप्रस्तुतिम् अकुर्वन्।
आवागमनम्
भोजपुर-तः २८ कि ॰मी॰ दूरे राज्यस्य राजधानी भोपाल-नगरी अवस्थिता। तस्याः राजा-भोज-विमानक्षेत्रम् इतः निकटतमं विमानस्थानकं वर्तते। दिल्ली, मुम्बई, इंदौर, ग्वालियर इत्यादिभ्यः महानरेभ्यः भोपाल-नगराय् विमानानि उपलब्धानि सन्ति।
रेल-सेवा
दिल्ली-चेन्नई, दिल्ली-मुम्बई च मुख्य-रेल- मार्गे भोपाल-नगरं, हबीबगंज-नगरं च निकटतमं रेलवे-स्थानम् अस्ति।
बस-सेवा
भोजपुरं प्रति भोपालनगरात् बस-यानानि प्राप्यन्ते।
निकटस्थस्थलानि
भोजपुरस्य निकटस्थात् कुमरीग्रामात् किञ्चित् दूरे एव घनीभूतवनप्रदेशः वर्तते। वनप्रदेशस्य मध्ये एव वेत्रवती-नद्याः (बेतवा) उद्गमस्थलम् अस्ति, यत्र नदी एकस्मात् कुण्डात् उद्भवति। भोपाल-नगरस्य विशालजलाशयः भोजपुरस्य एव कश्चन जलाशयः अस्ति। तस्मिन् जलाशये निर्मितः जलबन्दः मालवा-शासकः होशंग शाह इत्येषः १४०५-१४३४ ई॰ मध्ये अभङ्गयत्।











