रक्षाबन्धनम् : अस्मिन् वर्षे अगस्तमासस्य १९ दिनाङ्के अस्ति

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।
भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।
पुराणानुसारं श्रावणमासस्य पूर्णिमायां ब्राह्ममुहूर्ते देव-मनुष्य-पितृतर्पणानि दत्त्वा ब्राह्मणैः निर्मितं, मन्त्रितं च रक्षासूत्रं स्वहस्ते धर्तव्यम् । शिवस्य समीपं रक्षासूत्रं स्थापयित्वा स्वहस्ते रक्षासूत्रबन्धनं वरम् इत्यपि कथ्यते । पौराणिके काले रक्षाबन्धनं भ्रातृभगिन्योः सम्बन्धे सीमितं नासीत् । पत्नी पतिं, गुरुः शिष्यं, ब्राह्मणः राजानं, व्यापारी स्वसाधनं, क्षत्रियः स्वशस्त्रं, कृषकः स्वकृषिसाधनं च रक्षासूत्रं बध्नाति स्म । अधुना पतिपत्न्योः मध्ये रक्षाबन्धनस्य प्रथा न दृश्यते । परन्तु अन्येषु सम्बन्धेषु रक्षाबन्धनस्य प्रथा अधुनापि दृश्यते
भविष्यपुराणे देवदानवयोः एका घटना उल्लिखिता वर्तते । तत्र उल्लिखतं यत्, प्राचीनकाले देवदानवयोः भीषणं युद्धं द्वादशवर्षेभ्यः चलत् आसीत् । तस्मिन् युद्धे देवानां पराजयः भविष्यति इति देवगणेषु चर्चा आसीत् । देवराजः इन्द्रः देवानां पराजयस्थितिं दृष्ट्वा दुःखितः, मनसा दुर्बलः अभवत् । तस्य सम्मुखं न कोऽपि मार्गः आसीत् । तस्य चिन्तनशक्तिः अपि शिथिला अभवत् । अतः सः देवगुरोः बृहस्पतेः शरणम् अगच्छत् । शक्रः यदा देवानां पराजयस्थितिविषये देवगुरुम् अकथयत्, तदा तत्र इन्द्राणी अपि उपस्थिता आसीत् । इन्द्रस्य कथनं श्रुत्वा इन्द्राणी अवदत्, “श्वः श्रावणपूर्णिमा अस्ति । अहं शास्त्रियविधानानुसारं रक्षासूत्रं सज्जं करिष्ये । तत् रक्षासूत्रं त्वं ब्राह्मणेभ्यः स्वस्तिवाचनं कारयित्वा स्वहस्ते बन्धय” इति । द्वितीये दिने इन्द्राणी यत् रक्षासूत्रं न्यर्मात्, तत् सूत्रं बृहस्पतेः स्वस्तिवाचनेन सह इन्द्रः स्वहस्ते अधरत ।