बाङ्ग्लादेशे, भेदभाव-विरोधमाश्रित्य घटितेन छात्रान्दोलनेन अन्तरीम-सर्वकारनिर्माणस्य योजना निरूपिता अस्ति। अस्य आन्दोलनस्य समन्वयकः नोबेल्-पुरस्कारविजेता डा. मुहम्मद् यूनुस् इत्येषः देशस्य अन्तरीम-सर्वकारस्य मुख्योपदेशकरूपेण प्रस्तावितोऽस्ति। प्रमुखः संयोजकः नहिद् इस्लाम् इत्येषः सामाजिक-प्रसारमाध्यमेषु प्रकाशिते वीडियो-इति सन्देशे घोषणाम् अकरोत् यत् समन्वयकानाम् मतानुगुणं डा. यूनुस् इत्ययं पात्रं स्वीकर्तुं अङ्गीकृतवानिति। राष्ट्रपतिः मोहम्मद् शहाबुद्दीन् इत्येषः देशस्य सञ्चालनाय अन्तरीम-सर्वकारस्य निर्माणं कर्तुं निश्चितवान्, यदा बाङ्ग्लादेश-देशे उग्र-अशान्तेः मध्ये शेख हसीना प्रधानमन्त्रीपदात् त्यागपत्रं दत्तवती, फलतः आरक्षकाणां छात्र-आन्दोलनकारिणां च मध्ये सङ्घर्षः अभवत्, यस्मिन् नवतितः अधिकाः जनाः मृताः। छात्राः सर्वकारीय-कार्येषु आरक्षणस्य विरोधं कुर्वन्तः आसन्। बांग्लादेशे अशान्तेः मध्ये प्रायः एकोनविंशतिसहस्राणि भारतीय-नागरिकाः सन्ति, तेषु नवसहस्राणि छात्राः सन्ति। अद्य अपराले बाङ्ग्लादेशस्य स्थितिं प्रति राज्यसभायां वक्तव्यं ददन् विदेशमन्त्री डा.जयशङ्करः अवदत् यत् ढाका-नगरस्य उच्च-आयोगस्य परामर्शेण गतमासे एव बहुसङ्ख्यकाः छात्राः भारतं प्रत्यागताः इति। डा. जयशङ्करः उच्चसदनम् सूचितवान् यत् नवदेहलीप्रशासनम् अल्पसङ्ख्यकानां स्थितिं प्रति निरीक्षणं कुर्वत् अस्ति। तेषां संरक्षणार्थं कल्याणार्थं च प्रशासनम् विविधसमूहैः संस्थाभिः च सह सम्पर्के अस्ति। सः अवदत् यत् यावत्पर्यन्तं
विधि-व्यवस्थायाः प्रत्यक्षतया पुनःस्थापनं न भवति तावत् भारतदेशः गभीरतया चिन्तितः भविष्यति इति। सः अवदत् यत् भारतीय-सीमा-रक्षक-बलान्यपि अस्याः जटिल-स्थित्याः इतोऽपि असाधारणतमं भवितुं शक्नोतीति निर्देशो दत्तः अस्ति। सः अवदत् यत् बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना सुरक्षासंस्थानानां नेतृभिः सह मिलित्वा स्वपदात् त्यागपत्रं दातुं निश्चितवती इति। सः सूचितवान् यत् सा तत्क्षणमेव भारतं आगन्तुं अनुमतिं याचितवती तथा च गतरात्रौ देहलीनगरं प्राप्तवती। गत चतुर्विंशतिहोराभ्यः, नवदेहली अपि ढाका-नगरस्य अधिकारिभिः सह नियमिततया सम्पर्के आसीत्। विदेश-मन्त्री अवदत् यत् बाङ्ग्लादेशस्य स्थितिः अद्यापि वर्धमाना एव अस्तीति। बाङ्ग्लादेश-देशस्य जनरल् वाकर्-उज़-ज़मान् नामकः सेनाप्रमुखः ह्यः राष्ट्रम् संबोधयन् दायित्वस्य ग्रहणपूर्वकं, अन्तरीमसर्वकारस्य निर्माणविषये च अवदत्। बांग्लादेशे भारतस्य कूटनीतिक-उपस्थितिविषये मन्त्री सूचितवान् यत् ढाका-नगरे उच्चायोगमतिरिच्य चिट्टगांग्, राजशाही, खुल्ना, सिल्हेट् इत्येतेषु नगरेषु सहायक-उच्च-आयोगाः सन्ति इति। सः अवदत् यत् आतिथेय-सर्वकारः एतेषां प्रतिष्ठानानां कृते अपेक्षितसुरक्षां प्रददाति इति भारतं अपेक्षते, तथा च स्थितिः सुस्थिरतां प्राप्य तेषां सामान्यकार्यस्य प्रतीक्षां करोति। एतन्मध्ये ब्रिटेनसर्वकारः बाङ्ग्लादेशे अशान्तेः विषये संयुक्तराष्ट्रसंघस्य नेतृत्वे अन्वेषणं कर्तुम् आह्वयति ।











