जलगांव : खानदेश: काॅलेज-एज्युकेशन सोसायटी द्वारा संचालित: स्वामी विवेकानंद: जूनियर: कॉलेज: एम.जे.(स्वायत्त) महाविद्यालयद्वारा जलगांवमहानगरे शालेयस्तरीय छात्राणां कृते केसीई संस्थायाः अध्यक्षः प्रज्ञावंतः आदरणीय श्री. नन्दकुमारबेण्डाले महोदयस्य परिकल्पितश्रावणपूर्णिमायाः शुभदिने सर्वत्र आचरितस्य विश्वसंस्कृतदिवसस्य अवसरे अद्य श्री.आद्यशंकराचार्यसंस्कृतस्तोत्रपाठप्रतियोगिता आयोजिता। उक्तप्रतियोगितायां नगरस्य २२ विद्यालयेभ्यः ८ वी, ९ वी, १० वी कक्षायाः ४९५ छात्राः भागं गृहीतवन्तः। प्रातः सत्रे प्रतियोगितायाः उद्घाटनं के.सी.ई. संस्थायाः संयुक्त- सचिव: वाक्कीलः प्रवीणचंद्रः जंगले महोदयेन कृतम् । कार्यक्रमस्य अध्यक्षता प्राचार्यः डॉ एस. एन. भारम्बे महोदयेन विभूषितम् ।
मा. जङ्गले उक्तवान् यत् संस्कृतभाषायाः प्रचाराय, प्रसाराय, विकासाय च एतादृशाः स्पर्धाः सर्वथा आवश्यकाः अन्नसाहेब डॉ.जी.डी. बेण्डाले फाउण्डेशनस्य पक्षतः माध्यमिकविद्यालयस्य छात्राणां कृते नगरस्तरीयगीतापाठप्रतियोगिता आयोजिता इति प्रतिपादितवान्। श्रीमती एस.एल. चौधरी विद्यालयः/ प्रथम : शानबाग: विद्यालयं द्वितीयं स्थानं च नन्दिनीबाई बालिकाविद्यालयं तृतीयं स्थानं प्राप्तम्, ए.डब्ल्यू.अत्रे आङ्ग्ल माध्यम विद्यालयं तथा ओरियन सी.बी.एस.ई. विद्यालयः प्रोत्साहनपुरस्कारं प्राप्तवान् । ९ वी समूहात् ओरियन सी.बी.एस.ई . विद्यालयः प्रथमः, पी.एन.लुंकड द्वितीयः, न्यू आङ्ग्ल माध्यम विद्यालय तृतीयः, नन्दिनीबाई बालिका विद्यालयः तथा ए.वी.अत्रे आङ्ग्ल माध्यमः विद्यालयेन प्रोत्साहन पुरस्कारं संप्राप्तः। कक्षा 10 तः ब.गो. शानबागः विद्यालयः प्रथमः, ओरियन सीबीएसई द्वितीयः, पी. एन.लुंकड तृतीयः, सु. ज वाणी भागीरथ: विद्यालय:, तथा नन्दिनीबाई बालिका विद्यालय: प्रोत्साहन – पुरस्कारं प्राप्तः । पुरस्कार- वितरण- कार्यक्रमस्य मुख्यातिथिःसुप्रसिद्धःआयुर्वेदाचार्यः डॉ. केतकी कुलकर्णी इत्यस्य तत्वाधानेन उक्तप्रतियोगितानां प्रथमपुरस्कारः ७०१ ₹, द्वितीयपुरस्कारः ५०१ ₹, तृतीयपुरस्कारः ₹३०१, तथा च प्रोत्साहनसङ्ख्यायाः कृते ₹२०१-रूप्यकाणां पुरस्कारं च विस्तृतं प्रमाणपत्रं च प्रदत्तम्। भागं गृहीतवन्तः सर्वेभ्यः प्रतियोगिभ्यः प्रमाणपत्राणि प्रदत्तानि। प्रो डॉ. भाग्यश्री भालवतकर, प्रो.डॉ अखिलेश शर्मा, प्रो.कपिल शिंगाने, प्रा.मयुरी हरिमकर, प्रा.प्रीति शुक्ला,प्रा.सुप्रिया देशपाण्डे महोदयैः प्रतियोगितायाः परीक्षणं कृतवन्तः । कार्यक्रमस्य अध्यक्षता उपप्रधानाध्यापिका श्रीमती करूणा सपकाले महोदया अस्मिन् अवसरे पर्यवेक्षकः प्रो. ठाकरे महोदयः , संयोजकः प्रा. स्वाती बऱ्हाटे तथा प्रा. उमेश: पाटिल, संस्कृत शिक्षक: प्रा. अर्जुन शास्त्री आदयः उपस्थिताः आसन् । कार्यक्रमस्य सूत्रसंचालनं प्रा. . गणेशः सूर्यवंशी प्रा. संध्या महाजन एवं धन्यवाद प्रा. .आर. बी ठाकरे महोदयः कृतम्। पुरस्कारपाठं प्रा.श्रीमती. छाया चौधरी महोदयया कृता। कनिष्ठः महाविद्यालयस्य सर्वे अध्यापकाः कर्मचारीगणः च कार्यक्रम की सफलतायै बहु परिश्रमं कृतवन्तश्च ।











