देहरादूने संस्कृतभारत्या: आश्रये संस्कृतसप्ताहाचरणम्
वार्ताहर:-कुलदीपमैन्दोला
उत्तराखण्डायुर्वेदविश्वविद्यालयस्य देहरादूनस्य मुख्यपरिसरस्य आयुर्वेदसंकायहर्रावालायां परिसरनिदेशकः डॉ. राधावल्लभसतीवर्येण संस्कृतसप्ताहस्य उद्घाटनं कृतम्।
अस्मिन् अवसरे सभां सम्बोधयन् डॉ. सती अवदत् यत् संस्कृतभाषा भारतीयत्वस्य आधारशिला अस्ति। अस्याः भाषायाः माध्यमेन प्राचीनकालात् एव चिकित्साविज्ञानस्य प्रगतिः अभवत् । संस्कृतभाषा तस्याः ज्ञानग्रन्थानां माध्यमेन सर्वेषु क्षेत्रेषु प्रचलिता अस्ति । अस्माकं ऋषयः अस्याः भाषायाः आधारेण ज्ञानं प्रसारितवन्तः। यदि वयं भारतीयत्वं वास्तविकरूपेण ज्ञातुम् इच्छामः तर्हि संस्कृतद्वारा एव सम्भवति। आयुर्वेदस्य दृष्ट्या आयुर्वेदग्रन्थानां यथार्थार्थं ज्ञातुं संस्कृतस्य अतीव महत्त्वम् अस्ति ।
अस्मिन् अवसरे संहितासिद्धान्त-संस्कृतविभागस्य सहायक-प्राध्यापक: डॉ. प्रदीपसेमवालः परिचयात्मकभाषणं कुर्वन् भारतस्य परिचयः संस्कृतम् इति उक्तवान् । संस्कृतं विश्वस्य सर्वाधिका पोषिता भाषा अस्ति। संस्कृतं विना भारतस्य कल्पना कठिना। प्राचीनकालात् अद्यपर्यन्तं जगत् भारतीयज्ञानस्य प्रशंसकः अस्ति तथा च भारतीयज्ञानं ज्ञातुं स्वस्य अन्तः शान्तिं ज्ञातुं च संस्कृतं सर्वोत्तमः मार्गः अस्ति। ये देववाणी संस्कृतं पठन्ति ते अपि देववत् भवन्ति।
डॉ. ऋषि: आर्यः स्ववक्तव्ये कार्यक्रमे उक्तवान् यत् मानसिक-शारीरिक-स्वास्थ्ये संस्कृतस्य उच्चारणं हितकरं भवति।
कार्यक्रमे बी. एम.एस. इत्यस्य प्रथमवर्षस्य छात्रा प्रेरणा, गीतिका, मनचंदा, दिव्या, कुमकुमश्च अदितिराणा गणेशवंदनां च सरस्वतीवंदनां प्रस्तुतवन्त: । गीतिका अग्रवालः, अंकिता लमगडिया, करीना भारद्वाजः च संस्कृतकाव्यपाठं कृतवन्त:, कृषा, काव्या, शफक: च संस्कृतगीतं नृत्यं च प्रस्तुतवन्त: । शिवानी, प्रिन्सा, अदितिपंवार:, ईशा, कोमल:, गौरव:, सौरभ:, सागरश्च संस्कृतनाटकं प्रस्तुतवन्त: । कार्यक्रमस्य संचालनं कृष्णाग्रवालः दर्शनाभट्टः च अकरोत् ।
संस्कृतभारतीदेहरादूनस्य पक्षतः कार्यक्रमे उपस्थितः डॉ. राजेशशर्मा संस्कृतभाषां प्राचीनविज्ञानस्य आधारत्वेन वर्णयित्वा संस्कृतस्य वैज्ञानिकतां सर्वेषां समक्षं प्रस्तुतवान् ।
आचार्यमाधवपौडेल: छात्राणां समक्षं संस्कृतवार्तालापं पाठयति स्म तथा च विविधक्रियाद्वारा संस्कृतभाषायाः महत्त्वं व्याख्यातवान् । श्वेतरावतेन संस्कृतगीतं प्रस्तुतम्। अत्र संस्कृतगीतानि, संस्कृतश्लोकानि, नृत्यानि इत्यादिषु अनेकेषु कार्येषु छात्राः भागं गृहीतवन्तः। अन्ते महाविद्यालयस्य प्राचार्यस्य अध्यक्षभाषणद्वारा अद्यतनयूनां कृते संस्कृतं परममित्रत्वेन संगठितं भवितुमर्हति भविष्ये अपि एतादृशानि कार्याणि सञ्चालितव्यानि इति निर्देशाः प्राप्ताः।
कार्यक्रमसंयोजिका डॉ. नीतूबलूनी संस्कृतविभागत: राजकीयमहाविद्यालयदेहरादूनत: कार्यक्रमसंचालन तथा च धन्यवादज्ञापनं कृतवती । कार्यक्रमें प्रो. डी .एनतिवारी , प्रो. कुलदीपरावत:, डॉ. डी.एसमेहरा, डॉ. गिरीशशेट्टी ,डॉ. उषा नेगी, डॉ. मुक्तदंगल: ,डा. मनोजबिष्ट: ,डॉ. हेमलता खाती, डॉ. मंजूभंडारी , डॉ. प्रतिभा बलूनी , डॉ. माधुरी कोहली , डॉ. राकेश नौटियाल: च डॉ. सुनैना भट्ट: उपस्थिता: आसन्।











