व्याधः कपोताः च (बाल कथा)

एकस्मिन् वने एकः व्याधः अवसत्। सः खगान् गृहीत्वा तान् अखादयत्। एकस्मिन् दिने सः कपोतानां ग्रहणाय एवम् अचिन्तयत् अहं तण्डुल – कणान् विकीर्य तदुपरि एकं जालं विकीर्य उपविशेयम्। कपोताः धान्यलोभेन जाले उपविशन्तु, उपविश्य तण्डुलकणान् च खादन्तु। अनन्तरं जाले संलग्नान् कपोतान् गृहीत्वा अहं खादेयम् इति। उपायानुसारं कार्य कृत्वा सः तत्र उपविष्टः । तदानीम् तत्र एकः कपोत – समूहः आकाशे अगच्छत्। तस्य समूहस्य नायकः चित्रग्रीवनामकः कपोतः अन्यान् एवम् अवदत्, भोः सखायः !भवन्तः अधः पश्यन्तु तण्डुलकणाः बहवः सन्ति । तान् खादितुं भवन्तः मा गच्छन्तु। यतः निर्जने वने कथं तण्डुलकणाः भवेयुः? अतः अत्र या काचित् आपत् भवेत् इति। किन्तु अन्ये कपोताः किमर्थ वयं चित्रग्रीवस्य वचनं शृणवाम ? इति चिन्तयित्वा तण्डुलकणान् खादितुम् अवातरन् । तदा जाले संलग्नाः ते चित्रग्रीवम् एवं प्रार्थितवन्तः, भोः चित्रग्रीव! त्वम् अस्मान् रक्ष। वयं धान्यलोभेन अत्र जाले संलग्नाः स्मः । कृपया अस्माकम् उपरि तव द्या भवतु। अस्मान् पालय इति । कृपालुः चित्रग्रीवः अपि कथञ्चित् अहम् एतेषां रक्षणं कुर्याम् इति अचिन्तयत्। चिन्तयित्वा स्वकीय मित्रस्य मूषकस्य निकटे गत्वा एवं प्रार्थनाम् अकरोत्,
मूषक ! भवतः तीक्ष्णाः दन्ताः सन्ति। तदुपयुज्य भवान् जालात् मम बन्धून् निवारयतु! इति। मूषकः अपि सर्वान् कपोतान् न्यवारयत् ।