संवादक:- प्रवेशकुमारशुक्ल, लखनऊ
अयि सुरभारतीसमुपासका: १६.८.२०२४ तमे दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसर:, लखनऊ एवं लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन लखनऊ-नगरस्थविभिन्नेषु विद्यालयेषु संस्कृत-दिवस-समारोहः समायोजितः। इमे समारोहाः विश्वविद्यालयस्य यशस्वीकुलपतिनाम् आचार्यश्रीनिवासबरखेड़ीमहोदयानां संरक्षणे तथा च लखनऊपरिसरस्य निदेशकमहोदयानाम् आचार्यसर्वनारायणझामहोदयानां प्रधानसंयोजनेन सम्पन्नाः।
CSU लखनऊपरिसरः एवं पीएम श्री केन्द्रीयविद्यालयः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन लखनऊगोमतीनगरस्थ पीएम श्री केन्द्रीयविद्यालये प्रातः 7:00 वादने उप-प्राचार्यायाः श्रीमतीसंगीतासक्सेनामहोदयाया: अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्नवसरे मुख्यवक्त्रीरूपेण विद्यालयस्य संस्कृतप्राध्यापिका श्रीमतीशैलमसक्सेना महोदया उपस्थिता आसीत्। संस्कृताध्यापकः श्रीविजयबहादुरमहोदयः अपि उपस्थितः आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते सुभाषितश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथम: किशोरी, द्वितीय: प्रखरः, तृतीय: अरण्या, सान्त्वना सृष्टिः च पुरस्कारान् प्राप्तवन्तः। प्रो. लोकमान्यमिश्रमहोदयानां संयोजनेन, डा.रुद्रनारायणनरसिंहमिश्रमहोदयानां सह-संयोजनेन एवञ्च शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमः सम्पादितः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं द इंडियन पब्लिक इंटर कॉलेज, विनयखण्डः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:30 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीविमलायादवमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-समारोहोऽयं सम्पन्नः जातः। अस्मिन्नवसरे मुख्यवक्त्रीरूपेण विद्यालयस्य प्रधानाध्यापिका श्रीमतीउषाउपेतिमहोदया उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। तस्यां प्रतियोगितायां प्रथमस्थानं साक्षी तिवारी, द्वितीयस्थानं मोहसीन खान एवं व्याख्या सिंह, तृतीयस्थानं संगमः एवं रोशनी च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो. देवीप्रसाद द्विवेदी महोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।
केन्द्रीयसंस्कृतविश्वविद्यालयः, लखनऊपरिसरः एवं प्रकाशबालविद्यामन्दिरइण्टर काँलेज, विशालखण्डः-१, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 1:00 वादने विद्यालयस्य प्रबन्धकानां श्रीरामदयालमौर्यमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्नवसरे विद्यालयस्य प्रधानाध्यापिका श्रीमतीतृप्तिसिंहमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन्कार्यक्रमे विद्यार्थिनां कृते संस्कृतश्लोकगानस्पर्धा आयोजिता। अस्मिन् कार्यक्रमे संस्कृतश्लोकगानम्-भाषणम्-संस्कृतगीताप्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं गौरवः, द्वितीयस्थानं आर्यकुमारः, तृतीयस्थानं आयुषकुमारः, सान्व्रनास्थानं कृष्णश्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः। अस्य कार्यक्रमस्य संयोजक: प्रो.गणेशशंकरविद्यार्थीमहोदय: आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।
CSU, लखनऊपरिसरः एवं गंगोत्रीशिशुमन्दिरपब्लिक स्कूल, ग्वारीग्रामः, गोमतीनगरम्, लखनऊ इत्यनयो: संयुक्ततत्त्वावधानेन मध्याह्ने 12:00 वादने विद्यालयस्य प्रबन्धिकानां श्रीमतीमंजुघिल्डियालमहोदयानाम् अध्यक्षतायां संस्कृत-दिवस-कार्यक्रमोऽयं सम्पन्नः जातः। अस्मिन्नवसरे विद्यालयस्य प्रधानाध्यापिका मोनिकाघिलडियालमहोदया मुख्यवक्त्रीरूपेण उपस्थिता आसीत्। अस्मिन् कार्यक्रमे संस्कृतश्लोक-मन्त्र-गान-प्रतियोगिताः आयोजिताः, यासु प्रथमस्थानं शिवालिका एवं आशुतोषः, द्वितीयस्थानं अक्षरा एवं प्रेमा सिंह, तृतीयस्थानं राखी एवं रूही, सान्व्शनास्थानं अमन् एवं ईरम खान् श्च प्राप्त्वा पुरस्कारान् प्राप्तवन्तः।
अस्य कार्यक्रमस्य संयोजिका प्रो.अवनीशअग्रवालमहोदया आसीत्। शिक्षाशास्त्रविभागीयतृतीयसत्रार्द्धछात्राध्यापकैः छात्राध्यापिकाभिश्च कार्यक्रमोऽयं सम्पादितः।











