सर्वोच्चन्यायालयः-स्वास्थ्यकर्मिणां सुरक्षायै राष्ट्रियकार्यदलं निर्मितम्

सर्वोच्चन्यायालयेन स्वास्थ्यकर्मिणां सुरक्षायै राष्ट्रियकार्यबलस्य निर्माणं कृतम् अस्ति। मुख्यन्यायाधीशः डी. वाई. चन्द्रचूडस्य नेतृत्वे पीठेन कोलकाता-चिकित्सालये एकस्याः महिला- चिकित्सिकायाः दुष्कर्म-हत्या-प्रकरणस्य श्रवणकाले कार्यबलाय सप्ताह-त्रयानन्तरं स्वस्य अन्तरीम-प्रतिवेदनं, मासद्वयानन्तरं च अन्तिम-प्रतिवेदनं समर्पयितुं निर्देशः दत्तः। मुख्यन्यायाधीशः अवदत् यत् न्यायालयः महिलानां सुरक्षां निश्वेतुं देश-विदेशात् आगतानां वैद्यानां सुरक्षायै राष्ट्रिय-कार्यबलस्य स्थापनां करोति । एतत् कार्यबलं दिङ्-निर्देशान् अनुशंसयिष्यति ये प्रवर्तयिष्यन्ते सम्पूर्णे देशे सम्पूर्ण देशे वैद्यानां स्वास्थ्य-कर्मिणां च असुरक्षित-कार्य-परिस्थितेः विषये चिन्तां प्रकटयन् न्यायालयः अवदत् यत् विद्यमान-विधिः वैद्यानां संस्थागत-सुरक्षां पर्याप्ततया न व्यक्तीकरोति । न्यायर्यालयः अवदत् यत् तेन वर्गीकृत-विषयेषु अवधानं प्राप्तुं कोलकाता-नगरस्य आर्. जी. कर्- चिकित्सालये चिकित्सिकायाः दुष्कर्मस्य, हत्यायाः च विषये स्वप्रेरणया अवधानं स्वीकृतम् इति। न्यायालयः अवदत् यत् व्यावहारिक-धरायां परिवर्तनार्थं देशः अन्यस्य दुष्कर्मस्य, हत्यायाः च प्रतीक्षां कर्तुं न शक्नोति इति।
कार्यदलस्य १० सदस्याः चिकित्सासेवानां महानिदेशकः वाइस एड्मिरल् आरती सरिन् , एशियाई जठरान्त्रविज्ञानसंस्थायाः एआइजी अस्पतालानां हैदराबादस्य अध्यक्षः प्रबन्धनिदेशकः च डॉ. डी. नागेश्वर रेड्डी, दिल्ली-एम्सस्य निदेशकः डॉ. एम श्रीनिवासः, डा० प्रतिमा मूर्ति, निदेशक, राष्ट्रीय मानसिक स्वास्थ्य एवं तंत्रिका विज्ञान संस्थान , बेंगलुरु, डॉ गोवर्धन दत्त पुरी, कार्यकारी निदेशक, एम्स जोधपुर, डॉ सौमित्र रावत, अध्यक्ष, सर्जिकल जठरांत्र विज्ञान संस्थान, जीआई एवं एचपीबी ऑन्को-सर्जरी एवं यकृत प्रत्यारोपण एवं सदस्य, प्रबन्धन मण्डल , सर गंगा राम चिकित्सालय , नव देहली।