राष्ट्रियः अन्तरिक्षदिवसः

अगस्त मासस्य त्रयोविंशति दिनाङ्के देशे प्रथमः राष्ट्रियः अन्तरिक्षदिवसः आचर्यते। अस्मिन् वर्षे अस्य महोत्सवस्य विषयः अस्ति चन्द्रस्पर्शनेन जीवनस्पर्शनम् – भारतस्य अन्तरिक्षगाथा इति। राष्ट्रपति द्रौपदी मुर्मू नवदिल्लीस्थे भारतमण्डपमे आयोजितस्य मुख्यकार्यक्रमस्य उद्घाटनं करिष्यति। अन्तरिक्षराज्यमन्त्री डॉ. जितेन्द्रसिंहः अद्य वार्ताहर-सम्मेलनं सम्बोधयन् अवदत् यत् गतवर्षे अस्मिन् दिने चन्द्रयान-तृतीयस्य प्रक्षेपण-समये विक्रम-लैण्डर इत्यस्य चन्द्रमसि सुरक्षितं सरलं च अवरोहणं जातम्। तेनोदीरितं यत् भारतं चन्द्रमसि अवतीर्य चतुर्थः देशः सञ्जातः, चन्द्रमसः दक्षिणध्रुव-प्रदेशस्य समीपे अवतीर्य प्रथमः देशः च अभवत् । अस्मिन् अवसरे अस्माभिः अन्तरिक्षविज्ञानस्य प्रौद्योगिक्याः च महत्त्वं ज्ञात्वा युवानः तत् प्रति प्रेरयितुं आवश्यकम्। विज्ञानप्रौद्योगिक्याः माध्यमेन वयं काः उपलब्धयः प्राप्तुं शक्नुमः इति अयं दिवसः अस्मान् स्मारयति।